शब्दकल्पद्रुमः
विद्धकर्णी || स्त्री (विद्धः कर्ण इव पत्रमस्याः ।)
वृक्षविशेषः । अकनादि इति भाषा ॥ तत्- पर्य्यायः । पाठा २ अम्बष्ठा ३ स्थापनी ४ श्रेयसी ५ रसा ६ एकाष्ठीला ७ पापचेली ८ प्राचीना ९ वनतिक्तिका १० । इत्यमरः ॥ अविद्धकर्णी ११ अविद्धकर्णा १२ । इति तट्टीका ॥ आविद्धकर्णिका १३ विद्ध- कर्णिका १४ । इति शब्दरत्नावली ॥ अन्यत् पाठाशब्देद्रष्टव्यम् ॥