वाचस्पत्यम्
विद्यमान || पु० विद—शानच । १ वर्त्तमानकाले, २ तद्वृत्तौ पदार्थे० त्रि० ।
शब्दकल्पद्रुमः
विद्यमानः || त्रि (विद + शानच् ।) वर्त्तमानः । इति सच्छब्दटीकायां भरतः ॥ (यथा, वैद्यके । “वासायां विद्यमानायामाशायां जीवितस्य च ॥”)