वाचस्पत्यम्
विद्या || स्त्री विद—क्यप् । १ ज्ञाने । २ तत्त्वसाक्षात्कारे “विद्यया मृतमश्नुते” इति श्रुतिः । ३ दुर्गायां शब्दच० ४ गणिकारि- कावृक्षे शब्दच० । तन्त्रोक्ते ५ देवीमन्त्रे च । “शतलक्षप्र- जप्तापि तस्य विद्या न सिध्यतीति” श्यामास्तवः । ६ विद्याहेतौ शास्त्रे “अङ्गानि वेदाश्चत्वारो मीमांसान्या- यविस्तरः । धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश । आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थञ्च विद्या ह्यष्टादशैव ताः” प्रा० त० विष्णुपु० । विद्याभेदे देवताभेदाः हेमा० ब्र० विष्णुधर्मोत्तरे उक्ता यथा “ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः । सामवेदं तथा विष्णुः शम्भुश्चाथर्वणो भवेत् । शिक्षा- प्रजापतिर्ज्ञेया कल्पो ब्रह्मा प्रकीर्त्तितः । सरस्वती व्याकरणं निरुक्तं वरुणः प्रभुः । छन्दो विष्णुस्तथै- वाग्निर्ज्योतिषं भगवान् रविः । मीमांसा भगवान् सोमो न्यायमार्गः समीरणः । धर्मश्च धर्मशास्त्राणि पुराणञ्च तथा मनुः । इतिहासं प्रजाध्यक्षो धनुर्वेदः शतक्रतुः । आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः । कलावेदो महीदेवी नृत्यशास्त्रं महेश्वरः । सङ्कर्षणः पञ्चरात्रं रुद्रः पाशुपतं तथा । पातञ्जलमनन्तश्च सांख्यञ्च कपिलो मुनिः । अर्थशास्त्राणि सर्वाणि धनाध्यक्षः प्रर्कार्त्तितः । कलाशास्त्राणि सर्वाणि कामदेवो जगद्- गुरुः । अन्यानि यानि शास्त्राणि यत्कर्माणि प्रचक्षते । स एव देवता तस्य शास्त्रं कर्म च देववत्” । श्रुतौ तु विद्याभेदः द्विविधः पराऽपराभेदात् उक्तः । यया ब्रह्माव- गमः सा परा “ययाऽक्षरमधिगम्यते सा परेतिश्रुतेः” । ऋग्वेदादिलक्षणा अपरा सा च अध्ययनाध्यापनरूपा ।
शब्दकल्पद्रुमः
विद्या || स्त्री (विद्यतेऽसौ इति । विद् + “संज्ञायां समजनिषदनिपतेति ।” ३ । ३ । ९९ । इति क्यप् ।)
दुर्गा । इति शब्दरत्नावली ॥ गणि- कारिका । इति शब्दचन्द्रिका ॥ ज्ञानम् । तत्तु मोक्षे धीः । इति जटाधरः ॥ परमोत्तमपुरु- षार्थसाधनीभूता विद्या ब्रह्मज्ञानरूपा । इति नागोजीभट्टः ॥ मन्त्रः । यथा । शारदायाम् । “भान्तं वियत्सनयनं श्वेतो मर्द्दिनि ठद्बयम् । अष्टाक्षरी समाख्याता विद्या महिषमर्द्दिनी ॥” विश्वसारे । “प्रणवाद्यां जपेद्विद्यां मायाद्यां वा जपेत् सुधीः ।” महिषमर्द्दिनीमन्त्रः ॥ “दशाक्षरी समाख्याता विद्या त्रिभुवनेश्वरी । प्रणवञ्च तथा माया भवेद्बिद्या पुनर्द्दश । कामं प्रणवमित्युक्तं भवेद्बिद्या पुनर्द्दश ॥” दुर्गामन्त्रः । “वागबीजाद्या यदा विद्या वागीशत्वप्रदायिनी । कामाद्या च यदा विद्या सर्व्वकामप्रदायिनी ॥ तारमायादिका विद्या भोगमोक्षैकदायिनी । यद्वीजाद्या भवेद्बिद्या तद्बीजेनाङ्गकल्पना ॥” अन्नपूर्णामन्त्रः । इति तन्त्रसारः ॥ * ॥
महा- विद्या । कलौ तस्या नानामूर्त्त्यास्तामसी पूजा सर्व्वत्र भविता । अधुना सा वारोएयारीपूजा इति ख्याता । यथा, —
“अस्मिन् काले सुरेशानि प्रकाशो जायते भुवि । तमोधर्म्मेण सर्व्वत्र देवताप्रतिमां सदा ॥ अष्टम्याञ्च चतुर्द्दश्यां नवम्यां शनिभौमयोः । संक्रान्त्यां पञ्चदश्याञ्च पक्षयोरुभयोरपि ॥ कृत्वा तु पूजयिष्यन्ति महाविद्यां सभैरवाम् । विद्याञ्च विविधां देवि तथान्यप्रतिमां शुभाम् ॥ एवं हि तामसीं पूजामनित्याञ्च भवेत् कलौ ।” इति मायातन्त्रे १७ पटलः ॥ शास्त्रम् । तत्तु अष्टादशविधम् । यथा । शिक्षा १ कल्पः २ व्याकरणम् ३ निरुक्तम् ४ ज्योति- षम् ५ छन्दः ६ ऋग्वेदः ७ यजुर्व्वेदः ८ साम- वेदः ९ अथर्व्ववेदः १० मीमांसा ११ न्यायः १२ धर्म्मशास्त्रम् १३ पुराणम् १४ आयुर्व्वेदः १५ धनुर्व्वेदः १६ गान्धर्व्ववेदः १७ अर्थशास्त्रम् १८ ॥ यथा, विष्णुपुराणम् । “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः धर्म्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्द्दश ॥ आयुर्व्वेदो धनुर्व्वेदो गान्धर्व्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थञ्च विद्या ह्यष्टादशैव ताः ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥
नीचादप्युत्तमा विद्या ग्राह्या यथा, —
“श्रद्दधानः शुभां विद्यामाददीतावरादपि । अन्त्यादपि परं धर्म्मं स्त्रीरत्नं दुष्कुलादपि ॥” इति मानवे २ अध्यायः ॥ * ॥
विद्याप्रशंसा यथा, —
“ये बालभावान्न पठन्ति विद्यां ये यौवनस्था अधना अदाराः । ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥ भोजने भोजनं चित्तं न कुर्य्याच्छास्त्रसेवकः । सुदूरमपि विद्यार्थे व्रजेत् गरुडवेगवान् ॥ ये बालभावान्न पठन्ति विद्यां कामातुरा यौवननष्टचित्ताः । ते वृद्धकाले परिभूयमानाः सन्दह्यमानाः शिशिरे यथाब्जम् ॥ माता शत्रुः पिता वैरी वालो येन न पाठितः । न शोभते सभामध्ये हंसमध्ये वको यथा ॥ विद्या नाम कुरूपरूपमधिकं प्रच्छन्नमन्तर्द्धनं विद्या साधुजनप्रिया शुचिकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनार्त्तिनाशनकरी विद्या परं देवता विद्या भोग्ययशःकुलोन्नतिकरी विद्याविहीनः पशुः ॥ गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते । अशेषं हरणीयञ्च विद्या न ह्रियते परैः ॥” इति गारुडे ११० । ११५ अध्यायौ ॥ अथ विद्यादानफलम् । “यस्तु देव्या गृहे नित्यं विद्यादानं प्रवर्त्तयेत् । स भवेत् सर्व्वलोकानां पूज्यः पूजापदं व्रजेत् ॥ विद्यादानं प्रवक्ष्यामि येन तुष्यन्ति मातरः । लिप्यते दीयते येन विघिना तं शृणुष्व नः ॥ सिद्धान्तमोक्षशास्त्राणि वेदान् स्वर्गादिसाध- कान् । तदङ्गानीतिहासानि देया धर्म्मविवृद्धये ॥ गारुडं बालतन्त्रञ्च भूततन्त्राणि भैरवम् । शास्त्राणि पठनाद्दानात् मातरः फलदा नृणाम् ॥ ज्योतिषं वैद्यशास्त्राणि कला काव्यं स्वभाग्यतः । दानादारोग्यमाप्नोति गन्धर्व्वं लभते पदम् ॥ विद्याभ्यो वर्त्तते लोको धर्म्माधर्म्मञ्च वृद्धये । तस्माद्विद्या सदा देया दृष्टादृष्टफलार्थिभिः ॥ महीदानञ्च गोदानं हैमवस्त्रतिला जलम् । धान्यदीपान्नदानञ्च महादानानि दानसु ॥ इहात्र क्षीयते दानं दीपदानं नराधिप । विद्या वृद्धिमवाप्नोति दीयमानापि नित्यशः ॥ एकोच्चारेण भूदानं दत्तं भवति भूमिप । नहि तद्विद्यते भूप देहपातादनन्तरम् ॥ विद्यादानं न तद्बत्स एकधा दशधा भवेत् । शतधा कोटिधा गच्छेदिहामूत्र च पारगः ॥ राज्ञा तस्करदायाद्यैर्जलवह्रिसरीसृपैः । सर्व्वदानानि ह्रीयन्ते विद्या केनापि ह्रीयते ॥ विद्यादानात् परं दानं न भूतं न भविष्यति । विद्यादानेन दानानि नहि तुल्यानि बुद्धिमन् ॥ विद्या एव परं मन्ये यत्तत् पदमनामयम् । शृण्वन्नुत्पद्यते भक्तिर्भक्त्या गुरुमुपासते ॥ स च विद्यागमान् वक्ति विद्या पुस्ताश्रिता नृप । विद्याविवेकबोधेन शुभाशुभविचारिणाम् ॥ विद्यते सर्व्वकामाप्तिस्तस्माद्बिद्या परा मता ॥ विद्यादानात् परं दानं न भूतं न भविष्यति । येन दत्तेन चाप्नोति शिवं परमकारणम् ॥ विद्याविचारतत्त्वज्ञा राज्ञः सन्मार्गगामिनः । भुञ्जतेऽपि हि भोगानि गच्छन्ति परमां गतिम् ॥ अन्त्यजा अपि यां प्राप्य क्रीडन्ते ग्रहराक्षसैः । सा विद्या केन मीयेत यस्याः कोऽन्यः समो- ऽपि न ॥ ज्वरेण कुञ्जरं हन्ति सर्षपेण तुरङ्गमम् । मक्षिकापदमात्रस्य विषस्य विषमा गतिः ॥ एवंविधं विधिं वत्स विद्यामन्त्रप्रभावतः । जीर्य्यते भक्षितं पुंभिस्तस्माद्विद्या परात्परा ॥ नहि विद्या कुलं जातिरूपं पौरुषपात्रताम् । वशते सर्व्वलोकानां पठिता उपकारिका ॥ भूतैर्गृ हीता विध्वस्ता दष्टा वा महपन्नगैः । विद्या उत्थापयेत् वत्स अन्त्यजस्यापि हृत्- स्थिता । सर्व्वेषामेव वृद्धानां विद्यावृद्धे हि मान्यता ॥ वयोवृद्धो हि शूद्राणां बिशानां धनवान् यतः । क्षत्त्रियाणान्तु वीर्य्येण विप्राणां शास्त्रपारगः ॥ वित्तं बन्धुर्वयश्चैव तपो विद्या यथोत्तरम् । पूजनीयानि सर्व्वेषां विद्या तेषां गरीयसी ॥ गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । विद्यया लभ्यते विद्या चतुर्थी नोपलभ्यते ॥ यः कृत्स्नान्तु महीं दद्यात् मेरुतुल्यञ्च काञ्च- नम् । स यदन्यायतः पृच्छेन्न तस्योपदिशेत् क्वचित् ॥ एवंविधं महाभाग विद्यारूपं हि वर्णितम् । संक्षेपान्न च विस्तारात्तस्या दानफलं शृणु ॥ श्रीताडीपत्रजे सञ्चे समे पत्रसुसञ्चिते । विचित्रकं विपार्श्वे च चर्म्मणां सवटीकृते ॥ रक्तेन अथ कृष्णेन मूर्द्धानावर्द्धितेन च । दृढसूत्रसुबन्धेन एवंविधकृतेन च ॥ यस्तु द्वादशसाहस्रीं संहितामुपलेखयेत् । ददाति चाभियुक्ताय स याति परमां गतिम् ॥ पूर्ब्बोत्तरप्लवे देशे सर्व्ववाधाविवर्ज्जिते । गोमयेन शुभेनैव कुर्य्यान्मण्डलकं बुधः ॥ चतुर्हस्तप्रमाणेन शुभञ्च चतुरस्रकम् । तस्य मध्ये लिखेत् पद्मं सितरक्तरजादिभिः ॥ सर्व्वर्त्तुकमयैः पुष्पैर्भूषयेत् सर्व्वतो दिशम् । वितानं दापयेन्मूर्द्ध्नि शुभचित्रविचित्रितम् । पार्श्वतः सितवस्त्रैस्तु सम्यक् शोभां प्रकल्पयेत् । कन्दुकैरद्धचन्द्रैश्च दर्पणैश्चामरैस्तथा ॥ घण्टाकिङ्किणिशब्दैश्च सर्व्वत्र उपकल्पयेत् । तस्य मध्ये न्यसेद्यन्त्रं नागदन्तमयं शुभम् ॥ अधः कश्चिन्निबद्धन्तु पार्श्वतो हरिदन्तिभिः । शोभितं दृढबन्धेन बद्धं सूत्रेण बुद्धिमान् ॥ तस्योर्द्ध्वे विन्यसेद्देव्याः पुस्तकं लिखितं शुभम् । आलेख्यमपि तत्रैव पूजयेद्बिधिना ततः ॥ निरुदकैस्तथा पुष्पैः कृमिकीटविवर्जितैः । चन्दनेन सदा तत्र भस्मना चारु धूनयेत् ॥ धूपञ्च गुग्गुलुं देयं तुरुष्कागुरुमिश्रितम् । दीपमालां तथा चाग्रे नैवेद्यं विविधं पुनः ॥ खाद्यं पेयान्वितं लेह्यं चोष्यञ्चापि निवेदयेत् । पूजयेद्दिशिपालांस्तु लोकपालान् यथाक्रमम् ॥ कन्याः स्त्रियस्तु संपूज्या मातरः कल्पयेच्च ताः । पुस्तकं देवदेवीश्च विप्राणां दक्षिणां तथा ॥ स्वशक्त्या चैव दातव्या नृपं पौरांश्च पूजयेत् । तथा संपूजयेद्वत्स लेखकं धर्म्मभागकम् ॥ छन्दोलक्षणतत्त्वज्ञं सत्कविं मधुरस्वरम् । प्रणष्टं स्मरते ग्रन्थं श्रेष्ठं पुस्तकलेखकम् ॥ नातिसन्ततविच्छिन्नैर्न श्लक्ष्णैर्न च कर्कशैः । नन्दिनागरकैर्व्वर्णैर्लेखयेच्छिवपुस्तकम् ॥ प्रारम्भे पञ्चश्लोकानि पुनः शान्तिन्तु कारयेत् । रात्रौ जागरणं कुर्य्यात् सर्व्वापेक्षं प्रकल्पयेत् ॥ नटचारणनग्नैश्च देव्याः कथनसम्भवैः । प्रत्यूषे पूजयेल्लोकांस्ततः सर्व्वं विसर्ज्जयेत् ॥ एकान्ते सुमनस्केन विश्रब्धेन दिने दिने । निष्पाद्यं विधिनानेन स्वर्क्षे च शुभवासरे ॥ ततः पूर्ब्बोक्तविधिना पुनः पूजां प्रकल्पयेत् । तथा विद्याविमानन्तु सप्तपञ्चत्रिभूमिकम् ॥ विचित्रवस्त्रशोभाढ्यं शुभलक्षणलक्षितम् । कारयेत् सर्व्वतोभद्रं किङ्किणीवरकान्वितम् ॥ दपेणैरर्द्धचन्द्रैश्च घण्टाचामरमण्डितम् । तस्मिन्धूपं समुत्क्षिप्य सुगन्धं चन्दनागुरुम् ॥ तरुस्कं गुग्गुलुं वत्स शर्करामधुमिश्रितम् । पूर्ब्बवत् पूजयेत् सर्व्वान् कन्यास्त्रीद्विजपौरवान् ॥ तथा तं पुस्तकं वस्त्रे विन्यसेद्विधिपूजितम् । एवं कत्वा तथा चिन्त्या मातरः प्रीयतां मम ॥ यस्यैव शुल्कं तच्छास्त्रं पुस्ते पुरि विकल्पयेत् । तथा तपस्विनः पूज्याः सर्व्वशास्त्रार्थपारगाः ॥ शिवव्रतधरा मुख्या विष्णुधर्म्मपरायणाः । महता जनसंघेन रथस्थं वाद्यवाहनैः ॥ प्रधानैर्व्वापि तन्नेयं यस्य देवस्य अंशजम् । सामान्यं शिवतीर्थेषु मातरो भवनेषु च ॥ तस्मिन् पूजां तथा कृत्वा देवदेवेन शूलिना । समर्पयेत् प्रणम्येशं मातरः प्रीयतां मम ॥ सदाध्ययनयुक्ताय विद्यादानरताय च । विद्यासंग्रहयुक्ताय सर्व्वशास्त्रकृताश्रमे ॥ तेनैव वर्त्तते यस्तु तस्य तं विनिवेदयेत् । जगद्धिताय वै शान्तिं सन्ध्यायां वाचयेत्तथा ॥ तेन तोयेन दातारं मूर्द्ध्नि समभिसिञ्चयेत् । वरन्नेतु ततः शब्दमुच्चार्य्यं जगतस्तथा ॥ एवं कृते महाकान्तिर्देशस्य नगरस्य च ॥ अनेन विधिना यस्तु सर्व्ववाधाः शमन्ति च ॥ अनेन विधिना यस्तु विद्यादानं प्रयच्छति । स भवेत् सर्व्वलोकानां दर्शनादघनाशनः । मृतोऽपि गच्छते स्थानं ब्रह्मविष्णुनमस्कृतम् ॥ सप्त पूर्ब्बापरान् वंशानात्मनः सर्व्व एव च । उद्धृत्य पापकलिलाद्विष्णुलोके महीयते ॥ यावत् तत्पत्रसंख्यानमक्षराणि विधीयते । तावत् स विष्णुलोकेषु क्रीडते विविधैः सुखैः ॥ तदा क्षितिं समायातो देव्या भक्तिरता भवेत् । समस्तभोगसम्पन्ने विद्वान् संजायते कुले ॥ विद्यादानप्रभावेन योगशास्त्रं ददेद्यदि । आत्मवित्तानुरूपेण यः प्रयच्छति मानवः । अशाठ्यात् फलमाप्नोति सत्यं सत्यं न संशयः ॥ स्त्रिया वानेन विधिना विद्यादानफलं लभेत् भर्त्तुर्व्वानुज्ञया दत्तं विधवा वा तमुद्दिशन् ॥ * ॥
विद्यार्थिने सदा देयं वस्त्रमभ्यङ्गभोजनम् । छत्रिका उदकं दीपं यस्मात्तेन विना नहि ॥ लेखनीघटनं तीक्ष्णमसिपत्रन्तु लेखनीम् । दत्त्वा तु लभते वत्स विद्यादानमनुत्तमम् ॥ पुस्तकास्तरणं दत्त्वा तत्प्रमाणं सुशोभनम् । विद्यादानमवाप्नोति सूत्रबन्धन्तु बुद्धिमान् ॥ पत्रकामासनञ्चैव दण्डासनमथापि वा । विद्याधारणशीलाय दत्तं भवति राज्यदम् ॥ अञ्जनं नेत्रपादानां दत्तं विद्यापरायणे । भूमिं गृहन्तु क्षेत्रन्तु स्वर्गराज्यफलप्रदाम् ॥ यस्य भूम्यां स्थितो नित्यं विद्यादानं प्रवर्त्तते । तस्यापि भवते स्वर्गं तत्प्रभावान्नराधिप ॥ तस्मात् सर्व्वप्रयत्नेन विद्या देया सदा नरैः । इह कीर्त्तिमवाप्नोति मृतो याति परां गतिम् ॥” इति देवीपुराणे विद्यादानमहाभाग्यफला- ध्यायः ॥ * ॥
अपि च । “दशवापीसम कन्या भूमिदानञ्च तत्समम् । भूमिदानाद्दशगुणं विद्यादानं विशिष्यते ॥ यथा सुराणां सर्व्वेषां रामश्च परमेश्वरः । तथैव सर्व्वदानानां विद्यादानन्तु देहिनाम् ॥ राजसूयसहस्रस्य सम्यगिष्टस्य यत् फलम् । तत् फलं लभते विप्रो विद्यादानेन पुण्यवान् ॥ सर्व्वशस्यसमापूर्णां सर्व्वरत्नोपशोभिताम् । विप्राय वेदविदुषे महीं दत्त्वा शशिग्रहे । यत्फलं लभते विप्रो विद्यादानेन तत् फलम् ॥ कपिलानां सहसेण सम्यग्दत्तेन यत् फलम् । तत् फलं समवाप्नोति पुस्तकस्य प्रदानतः ॥ यावच्च पातकं तेन कृतं जन्मशतैरपि । तत् सर्व्वं नाशयत्याशु विद्यादानेनं भो द्बिज ॥ धर्म्मोपदेशं यः कुर्य्यात् शास्त्रं ज्ञात्वा तु वैष्णवे । कृत्स्नां धरित्रीं यो दद्यात् उभयोस्तत्समं फलम् ॥ विद्यादानात् परं दानं न भूतं न भविष्यति । येन दत्तेन चाप्नोति शिवं परमकारणम् ॥ विद्या च श्रूयते लोके सर्व्वधर्म्मप्रदायिका । तस्माद्बिद्या सदा देया पण्डितैर्धार्म्मिकैर्द्बिजैः ॥ आत्मविद्याप्रदातारो ये भवन्ति सदा मुने । न पुनस्तेऽपि निरयं प्रविशन्ति सुनिश्चयम् ॥ विप्राय पुस्तकं दत्त्वा धर्म्मशास्त्रस्य च द्विज । पुराणस्य च यो दद्यात् स देवत्वमवाप्नुयात् ॥ शास्त्रदृष्ट्या जगत् सर्व्वं सुश्रुतञ्च शुभाशुभम् । तस्मात् शास्त्रं प्रयत्नेन दद्याद्विप्राय कार्त्तिके ॥ वेदविद्याञ्च यो दद्यात् स्वर्गे कल्पत्रयं वसेत् । आत्मविद्याञ्च यो दद्यात् तस्य संख्या न विद्यते ॥ त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च । शास्त्रं कामदुधा धेनुः पृथिवी चैव शाश्वती ॥ यत्किञ्चित् कार्त्तिके दत्तं विष्णुमुद्दिश्य मानवैः । तदक्षयञ्च लभते त्वन्नदानाद्विशेषतः ॥ इह लोके बहून् भोगान् भुक्त्वा याति शिवा- लयम् ॥” इति पाद्मोत्तरखण्डे ११७ अध्यायः ॥ अथ विद्यारम्भदिनानि । विष्णुधर्म्मोत्तरे । “संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्द्दने । षष्ठीं प्रतिपदञ्चैव वर्ज्जयित्वा तथाष्टमीम् ॥ रिक्तां पञ्चदशीञ्चैव सौरिभौमदिनं तथा । एवं सुनिश्चिते काले विद्यारम्भन्तु कारयेत् ॥ पूजयित्वा हरिं लक्ष्मीं देवीञ्चापि सरस्वतीम् । स्वविद्यासूत्रकारांश्च स्वाञ्च विद्यां विशेषतः ॥ नमस्ते बहुरूपाय विष्णवे परमात्मने । स्वाहेत्यनेन हरिं त्रिः पूजयेत् । भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः । वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च ॥ स्वाहेति ब्रह्मपुराणीयेन च त्रिः पूजयेत् ॥” * ॥
लिखनविधिमाह नन्दिपुराणम् । “शुभे नक्षत्रदिवसे शुभे वारे दिनग्रहे । लेखयेत् पूज्य देवेशान् रुद्रब्रह्मजनार्द्दनान् ॥ पूर्ब्बदिग्वदनो भूत्वा लिपिज्ञो लेखकोत्तमः । निरोधो हस्तबाह्वोश्च मसीपत्रावधारणे ॥” मत्स्यपुराणञ्च । “शीर्षोपेतान् सुसंपूर्णान् समश्रेणीगतान् समान् । अक्षरान् विलिखेद्यस्तु लेखकः स परः स्मृतः ॥” नाधीयीतेत्यनुवृत्तौ मनुः । “रुधिरे च स्रते गात्रात् शस्त्रेण च परीक्षते ।” रुधिरस्रवं विना शस्त्रेण क्षतमात्रेऽपि । दीपि- कायाम् । “लघुचरशिवमूलाधोमुखत्वष्टृपौष्ण- शशिषु च हरिबोधे शुक्रजीवार्कवारे । उदितवति च जीवे केन्द्रकोणेषु सौम्यै- रपठनदिनवर्ज्जं पाठयेत् पञ्चमेऽब्दे ॥” मदनपारिजाते । “विद्यारम्भे गुरुः श्रेष्टो मध्यमौ भृगुभास्करौ । मरणं शनिभौमाभ्यामविद्या बुधसोमयोः ॥ विद्यारम्भः सुरगुरुसितज्ञेष्वभीष्टार्थदायी कर्त्तुश्चायुश्चिरमपि करोत्यंशुमान् मध्यमोऽत्र । नीहारांशौ भवति जडता पञ्चता भूमिपुत्त्रे छायासूनावपि च मुनयः कीर्त्तयन्त्येवमाद्याः ॥ रवेर्गुरोर्भृगोर्लग्ने तत्स्थेऽर्केऽपीन्दुवृद्धितः । गुर्व्वर्केन्दूडुशुद्धौ च विद्यारम्भः प्रशस्यते ॥” * ॥
बृहस्पतिः । “प्राङ्मुखो गुरुरासीनो वरुणाभिमुखं शिशुम् । अध्यापयेच्च प्रथमं द्विजाशीर्भिः प्रपूजितम् ॥” कूर्म्मपुराणम् । “स्वाध्यायस्य त्रयो भेदा वाचिकोपांशु- मानसाः ॥” शिवधर्म्मे । “संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥” आदिः ग्रन्थकरणादिः । * । नन्दिपुराणम् । “प्रशस्तशब्दसंयोगे कुर्य्यात् यतिविरामणम् ।” विरामणं तद्दिनपाठसमाप्तिम् ॥ * ॥
“समाप्ते वाचकाभीष्टं कुर्य्यादेव विचक्षणः । सुश्रुतं सुव्रतं भूयादस्तु व्याख्या तु नित्यदा ॥ लोकः प्रवर्त्ततां घर्म्मे राजा चास्तु सदा जयी । धर्म्मवान् धनसम्पन्नो गुरुश्चास्तु निरामयः ॥ * ॥
इति प्रोच्य यथायातं गन्तव्यञ्च विभावितैः । शिष्यैः परस्परं शास्त्रं चिन्तनीयं विचक्षणैः ॥ कथावस्तुप्रसङ्गेन नानाव्याख्यानसम्भवैः । युक्तिभिश्च स्मरेद्व्याख्यां चिह्रैश्चापि स्वयंकृतैः । एवं दिने दिने व्याख्यां शृणुयान्नियतो नरः ॥” विष्णुपुराणम् । “पुत्त्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥” सूत उवाच । “प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तृप्तिमुत्पादयते शरीरे अन्धस्य दारा इव दर्शनीयाः ॥” * ॥
लिङ्गपुराणम् । “यो गुरुं पूजयेन्नित्यं तस्य विद्या प्रसीदति । तत्प्रसादेन यस्मात् स प्राप्नुते सर्व्वसम्पदः ॥” दुर्व्वासाः । “सन्ध्यायां गर्ज्जिते मेघे शास्त्रचिन्तां करोति यः । चत्वारितस्य नश्यन्ति चायुर्विद्या यशो बलम् ॥” अधीतस्यार्थिने दानमावश्यकं तथा च श्रुतिः । योऽधीत्यार्थिभ्यो विद्यां न प्रयच्छेत् स कार्य्यहा स्यात् श्रेयसो द्बारमावृणुयात् इति । * । तद्दानञ्च अध्यापनेन व्याख्यया विलिख्यार्पणेन च सम्भवतीत्यतो धीमद्भिर्निबन्धः क्रियते ॥ * ॥
तथा च विष्णुपुराणम् । “प्राणिनामुपकाराय यदेवेह परत्र च । कर्म्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥” बृहस्पतिरपि । “अज्ञानतिमिरोपेतान् सन्देहपटलान्वितान् । निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ॥ इह कीर्त्तिं राजपूजां लभते सद्गतिञ्च सः । षाण्माषिके तु समये म्रान्तिः सञ्जायते यतः ॥ धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा । उपदेशानुमन्ता च लोके तुल्यफलौ स्मृतौ ॥” एवञ्च । एकलव्येनानुपदेष्टापि द्रोणाचार्य्यो गुरुः कृतः अतो ग्रन्थकर्त्तः सुतरां गुरुत्वम् । यथा, महाभारते । “अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम् । तस्मिन्नाचार्य्यवृत्तिञ्च परमामास्थितस्तदा । इष्वस्त्रे योगमातस्थे परं निश्चयमागतः ॥” * ॥
शङ्खलिखितौ । “न वेदमनधीतानां विद्यामधीयीतान्यत्र वेदाङ्ग- स्मृतिभ्यः ॥” * ॥
अङ्गानि च । “शिक्षा कल्पो व्याकरणं छन्दो ज्योतिषमेव च । निरुक्तञ्चेति चाङ्गानि वेदानां गदितानि षट् ॥” स्मृतिस्तु धर्म्मसंहितेत्यमरः ॥ * ॥
शिष्यस्य गुरुषु ऋणित्वमाह लघुहारीतः । “एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥” नन्दिपुराणम् । “यश्च श्रुत्वान्यतः शास्त्रं संस्कारं प्राप्य वै दृढम् । अन्यस्य जनयेत् कीर्त्तिं गुरोः स ब्रह्महा भवेत् ॥ विस्मरेच्च तथा मौढ्याद्योऽपि शास्त्रमनुत्तमम् । स याति नरकं घोरमक्षयं भीमदर्शनम् ॥” * ॥
अतएव गृहस्थादीनामपि पुनरध्ययनमाह आपस्तम्बः । यया विद्यया न विरोधेत पुनरा- चार्य्यमुपेत्य साधयेदिति ॥ * ॥
विष्णुः । यश्च विद्यामासाद्य तव्या जीवेत् न च सा तस्य पर- लोकफलप्रदा भवति यश्च विद्यया परेषां यशो हन्तीति । * । देवलः । “इष्टं दत्तमधीतं यद्विनश्यत्यनुकीर्त्तनात् । श्लाघानुशोचनाभ्याञ्च भग्नतेजो विभिद्यते ॥ तस्मादात्मकृतं पुण्यं वृथा न परिकीर्त्तयेत् ॥” अनुकीर्त्तनं कथनम् । श्लाघा प्रशंसा । अनु- शोचनं धनव्ययेन पश्चात्तापः । भग्नतेजः फल- जनकशक्तिहीनम् । वृथा रक्षादिप्रयोजनं विना ॥ * ॥
वैष्णवामृते भविष्यपुराणम् । “उपाध्यायस्य यो वृत्तिं दत्त्वाध्यापयति द्विजान् । किन्न दत्तं भवेत्तेन धर्म्मकामार्थमिच्छता ॥” इति ज्योतिस्तत्त्वम् ॥