शब्दकल्पद्रुमः
विद्युज्जिह्वः || पुं, (विद्युदिव चञ्चला जिह्वा यस्य ।)
राक्षसविशेषः । यथा, —
“अग्निकेतुश्च दुर्द्धर्षो रश्मिकेतुश्च वीर्य्यवान् । विद्युज्जिह्वो द्बिजिह्वश्च सूर्य्यशत्रुश्च राक्षसः ॥” इति रामायणे उत्तरकाण्डे ९० सर्गः ॥ (स्त्री, कुमारानुचरमातृगणविशेषः । यथा, महाभारते । ९ । ४६ । ८ । “मेघस्वना भोगवती सुभ्रूश्च कनकावती । अलाताक्षी वीर्य्यवती विद्युज्जिह्वा च भारत ! ॥”)