शब्दकल्पद्रुमः
विद्यावान् || [त्] त्रि, (विद्यास्त्यस्येति । विद्या + मतुप् । मस्य वः ।)
विद्याविशिष्टः । विद्या- शब्दात् वतुप्रत्ययेन विष्पन्नः ॥ (यथा, प्रबोध- चन्द्रोदये । २ । ३१ । “विद्यावन्त्यपि कीर्त्तिमन्त्यपि सदाचारावदा- तान्यपि । प्रोच्चैः पौरुषभूषणान्यपि कुलान्युद्धर्त्तुमीशः क्षणात् ॥”)