शब्दकल्पद्रुमः
विद्युत्केशः || पुं, (विद्युत इव दीप्तिशालिनः केशा यस्य ।)
राक्षसविशेषः । यथा, —
“स कालभगिनीं कान्यां भयां नाम महा- भयाम् । उदावहदमेयात्मा स्वयमेव महामतिः ॥ स तस्यां जनयामास हेती राक्षसपुङ्गवः । पुत्त्रं पुत्त्रवतां श्रेष्ठो विद्युत्केशमिति श्रुतम् ॥” इति रामायणे उत्तरकाण्डे ४ सर्गः ॥