वाचस्पत्यम्
विद्युत् || स्त्री विद्योतते वि + द्युत—क्विप् । १ तडिति अमरः २ सन्ध्यायाञ्च विगताद्युत् यस्य प्रा० व० ३ निष्प्रभे त्रि० मेदि० । विद्युतत घतुविधाः “अरिष्टनेमिपत्नीनामपत्यानाह षा- डश । बहुपुत्रस्य विदुषश्चतस्रा विद्युतः स्मृताः” । ताश्च “वाताय कपिला १ विद्युदातपाय हि लोहिता २ । पीता ३ वर्षाय विज्ञेया दुर्भिक्षायासिता ४ भवेत्” ज्यो० । आन्त- रिक्षोपद्रवविद्युत्कारणञ्च श्रींपतिबोक्तं यथा “निर्घा- तोल्काघनसुरधनुर्विद्युतश्च कुवायोः संदृश्यन्ते खनगर- परीवेषपूर्वास्तथान्ये” “सुजलजलधिमध्ये बाडवोऽग्निः स्थितोऽस्मात् सलिलभरनिमग्नात् विद्युतस्तत्स्फु सिङ्गाः” । तदग्निपातरूपवज्राग्निपातसम्भवकारण अकस्माद्वैद्युतं तेजः पार्थिवांशकमिश्रितम् । वात्यावद् भ्रमदाषाते पतिकूलानुकूलयोः । वाथ्वोस्तत् पतति प्रायो ह्यकालप्राप्यवर्षणे । यतः प्रावृषि नैवेते पांसवः प्रसरन्ति हि । तत् त्रेधा पार्थिवं चाप्यं तैजसं तत्त- दुत्थितम् । गतो निर्झरदाहैश्च भूमिस्थैरनुभूयते” ।
शब्दकल्पद्रुमः
विद्युत् || त्रि (विगता द्युत् कान्तिर्य्यस्य ।)
निष्प्रभः । इति मेदिनी । ते, १५५ ॥ (विशिष्टा द्युत् दोप्तिर्यस्येति विग्रहे । विशेषेण दीप्ति- शाली । यथा, ऋग्वेदे । १ । २३ । १२ । “हस्काराद्बिद्युतस्पर्य्यतो जाता अवन्तुनः ॥” “हस्कारात् दीप्तिकारात् विद्युतो विशेषेण दीप्यमानात् ।” इति तद्भाष्ये सायणः ॥)
शब्दकल्पद्रुमः
विद्युत् || स्त्री (विशेषेण द्योतते इति तच्छीला वा । वि + द्युत + “भ्राजभासेति ।” ३ । २ । १७७ । इति क्विप् ।)
सन्ध्या । इति मेदिनी । ते, १५५ ॥ विद्योतते या । तत्पर्य्यायः । शम्पा २ शतह्रदा ३ ह्रादिनी ४ ऐरावती ५ क्षणप्रभा ६ तडित् ७ सौदामिनी ८ चञ्चला ९ चपला १० । इत्य- मरः ॥ वीपा ११ सौदाम्नी १२ चिल- मीलिका १३ सर्ज्जूः १४ अचिरप्रभा १५ सौदामनी १६ अस्थिरा १७ मेघप्रभा १८ अशनिः १९ । इति शब्दरत्नावली ॥ चटुला २० अचिररोचिः २१ राधा २२ नीलाञ्जना २३ । इति जटाधरः ॥ सा चतुर्व्विधा । यथा, —
“अरिष्टनेमिपत्नीनामपत्यानीह षोडश । बहुपुत्त्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥” इति विष्णुपुराणे १ अंशे १५ अध्यायः ॥ चतस्रो विद्युतस्तु । “वाताय कपिला विद्युदातपाय हि लोहिता । पीता वर्षाय विज्ञेया दुर्भिक्षायासिता भवेत् ॥” इति ज्योतिःशास्त्रे प्रसिद्धाः । इति तट्टीका ॥