संस्कृत-शब्दकोशः

विद्वेषिन् विधवन

विध

वाचस्पत्यम्

विध ||‍ पुंस्त्री विध क् अच् वा । १ विमाने २ गजभक्ष्यान्ने २ प्रकारे ४ वेधे ५ वृद्धौ रभसः ६ वेतने मेदि० ७ कर्मणि च स्त्री हेमच० । तत्रार्थे वेधने च स्त्री त्रिका० ।


वाचस्पत्यम्

विध ||‍ विधाने छिद्रकरणे छेदने च तु० पर० सक० सेट् । विधति । अवेधीत्


शब्दकल्पद्रुमः

विधः || पुं, (विध्यते क्रियते इति । विध + धञर्धे कः ।)
विमानम् । हस्त्यन्नम् । प्रकारः । वेध- नम् । ऋद्धिः । इति भरतधृतरभसाजयौ ॥


शब्दकल्पद्रुमः

विध || श विधौ । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।)
विधिर्विधानम् । श, विधति वेधा जगत् । अनेकार्थत्वात् छिद्रकरणेऽप्ययम् । विधितच्छिद्रितौ विद्धे । इत्यमरः ॥ कर्णवेधः । इति दुर्गादासः ॥



Correction: