शब्दकल्पद्रुमः
विधा || स्त्री (विधानमिति । वि + धा + क्विप् ।)
विधिः । प्रकारः । इत्यमरः ॥ (यथा, तैत्ति- रीयोपनिषदि । ३ । १० । १ । “तस्मात् यया कया च विधया बह्वन्नं प्राप्नु- यात् ॥”)
ऋद्धिः । गजान्नम् । वेतनम् । इति मेदिनी- शब्दरत्नावल्यौ ॥ कर्म्म । इति हेमचन्द्रः ॥ वेधनभ् । इति त्रिकाण्डशेषः ॥ (आपः । यथा, वाजसनेयसंहितायाम् । १४ । ७ । “सजूरृतुभिः सजूर्विधाभिः सजूर्वसुभिः ।” “विधाभिर्या त्वं सजूरसि विदधति सृजन्ति जग- दिति विधा आपस्ताभिः । आपो वै विधा अद्भिर्हीदं सर्व्वं विहितमितिश्रुतेः । अप एव ससर्जादौ इति स्मृतेश्च ।” इति तद्भाष्ये मही- धरः ॥)