वाचस्पत्यम्
विधात्रायुस् || पु० विधातुरायुः प्रमाणं यस्मात् । सूर्य्ये शब्दच० सूर्य्यक्रियां विना वत्सरादिज्ञानासम्भवात् सूर्य्यस्य तथा- त्वम् । ६ त० । तस्य वयःकाले २ महाकल्पे च । तदायुः- कालस आयुस्शब्दे ७९२ पृ० दृश्यः ।
शब्दकल्पद्रुमः
विधात्रायुः || [स्] पुं, (विधातुरायुर्ज्जीवित- कालपरिमाणं यस्मात् । सूर्य्यक्रियां विना वत्स- रादिज्ञानासम्भवादेवास्य तथात्वम् ।)
सूर्य्यः । यथा, —
“वेशदानो विधात्रायुर्द्दिव्यवस्त्रो दिवाकरः ॥” इति शब्दचन्द्रिका ॥ क्ली, ब्रह्मणो वयः । तद्यथा । चतुर्द्दश- मन्वन्तरैर्ब्रह्मणः एकं दिनं भपति । तन्मनुष्य- मानेनैकः कल्पस्त्रिंशत्कल्पे ब्रह्मण एको मासो भवति । एतादृशैर्द्वादशमासैर्ब्रह्मणः संवत्सरो भवति । एवं वर्षशतं ब्रह्मण आयुः । तत्र पञ्चाशत् वर्षा व्यतीताः । एकपञ्चाशदा- रम्भेऽधुना श्वेतवाराहकल्पः । अत्र मन्वन्त- राणि व्यतीतानि षट् अधुना वैवस्वतमन्वन्तरं वर्त्तते । इति श्रीभागवतमतम् ॥