शब्दकल्पद्रुमः
विधात्री || स्त्री (वि + धा + तृच् । ङीप् ।)
पिप्पली । इति शब्दचन्द्रिका ॥ विधानकर्त्त्री । यथा, —
“गतासूनां बाहुप्रकरकृतकाञ्चीपरिलस- न्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयनाम् । श्मशानस्थे तल्पे शवहृदि महाकालसुरत- प्रयुक्तां त्वां ध्यायन् जननि जडचेता अपि कविः ॥” इति तन्त्रसारे कर्पू राख्यस्तोत्रम् ॥