संस्कृत-शब्दकोशः

विधात्री विधानक

विधान

वाचस्पत्यम्

विधान ||‍ न० वि + धा ल्युट् । १ करणे २ कर्मणि । ३ विधौ, जटा० ३ गजभक्ष्यान्ने च हारा० वंज्ञायां कन् । अथायां म० शब्दर० ।


शब्दकल्पद्रुमः

विधानं || क्ली (वि + धा + ल्युट् ।)
विधिः । इति जटाधरः ॥ (यथा, मनुः । ७ । १८१ । “यदातु यानमातिष्ठेत् परराष्ट्रं प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः ॥”)
करणम् । इति नानार्थविधिशब्दटीकायां भरतः ॥ (यथा, रघुः । ७ । १४ । “परस्परेण स्पृहणीयशोभं न चेदिदं द्बन्द्वमयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥”)
करिकवलः । इति हारावली । १९१ ॥ (वेदादि- शास्त्रम् । यथा, मनुः । १ । ३ । “त्वमेको ह्यस्य सर्व्वस्य विधानस्य स्वयम्भुवः । अचिन्त्यस्याप्रमेयस्य कार्य्यतत्त्वार्थवित् प्रभो ! ॥” नाटकाङ्गविशेषः । यथा, साहित्यदर्पणे । ६ । ३४६ । “सुखदुःखकृतो योऽर्थस्तद्बिधानमिति स्मृतम् ॥” यथा, बालचरिते । “उत्साहातिशयं वत्स तव बाल्यञ्च पश्यतः । मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः ॥”)



Correction: