वाचस्पत्यम्
विधि || पु० वि + धा—कि । १ गजत्स्रष्टरि ब्रह्मणि, ३ भाग्ये ३ क्रमे अमरः “चिकीर्माकृतिसाध्यत्वहेतुधीविषयो विधि- शब्दश० उक्ते प्रवर्त्तनारूपे ४ नियोगे तज्जनके ५ वाक्ये हेमच० । ६ विष्णो हलाय० ७ कमणि त्रिका० । ८ मज- मक्ष्यान्ने जटा० । ९ वैद्ये राजनि० । १० अप्राप्तप्रामकरूपे वाक्यभेदे, व्याकरणोक्ते ११ सूत्रभेदे । तत्र व्याकरणवि- घिर्निरूप्यते । “संज्ञा च परिभाषा च विधिर्नियम एव च । अतिदेशोऽधिकारश्च” षड्विधमूत्रलक्षणमित्युक्तेः । षट्विधिभेदाः तत्र “तुन्याप्य प्रयत्नं सवर्णम्” पा० सवर्णमंज्ञा परिभाषा तच्छब्दे ४२४९ पृ० उक्ता । अप्राप्तप्रापको विधिः यथा “अकः सवर्णे दीर्घः” पा० इत्यादि । अत्र सवर्णे परे पूर्वस्य दीर्घस्याप्राप्तेस्तत्प्रापकत्वात् तथात्वम् । स च द्वि- विधः वर्णाद्युत्पादकोऽभावरूपश्च । तत्र वर्णोत्पादक उक्तः अभावोऽपि द्विविधः लोपरूपो निषेधरूपश्च तत्र “लोपो- ऽभ्यासस्येति” पा० नाशरूपः । “नाभ्यस्ताच्छतुरित्यादौ” निषेधरूपः । सामान्यप्राप्तस्य विशेषावधारको नियमः यथा “रात्मस्यैव” पा० इत्यादि । अन्थधर्मस्याम्यत्रारो- पणविधिरतिदेशविधिःयथा पुंवद्भावादिः । पूर्वसूत्रस्त्रप- दादेरन्यत्रोपस्थितिरधिकारविधिः । स च त्रिविधः “सिंहावलोकितं चैव मण्डूकप्लुतमेव वा । गङ्गा- प्रवाहवच्चापि ह्यधिकारस्त्रिधा मतः” । अधिकारशब्दे १२७ पृ० दृश्यम् । विधिश्च विनियोगरूपतया शब्दश० प्र० निरूपितो यथा “नेह कृत्यात्मकं विधानम् । आख्यातमात्रस्य तद्बोध- समर्थत्वात् किन्तु प्रवर्त्तकचिकीर्षायां यतप्रकारकज्ञानस्य हेतुत्वं स तथा, तादृशञ्च कृतिसाध्यत्वमिष्टसाधवत्वम् बलवदनिष्टाननुवन्धिवञ्च पत्येकमेय, यागपाकादि- धर्मिकतन्निश्चयादेव यागादिधर्मिकचिकीर्षोत्पत्त्या तत्र प्रवृत्तेः । एवञ्च यजेतेत्यादौ यागः कृतिसाध्यः इष्ट- साधनं बलवदनिष्टाननुबन्धी चेत्याकारको बोधः” अ- धिकं तत्र दृश्यम् । मीनांसकमते विधिस्वरूपभेदादिकं लौगाक्षिभास्करेण दर्शितं यथा “तत्राज्ञातार्थज्ञापको वेदभागो विधि । म च तादृश- प्रयोजनवदर्थविधानेनार्थवान् तादृशं चार्थं प्रमाणान्त- रेणप्रापुं विधत्ते । यथान्धिष्ठोत्रं जुहुयात् स्वर्ग- काम इति विधिर्मानान्तरेणाप्राप्तस्थर्गप्रयोजनवद्धोमं विधत्ते । अग्निहोत्रहोमेन खर्गं भावयेदिति बाक्या- र्थबोधः” । “यत्र कर्म मानान्तरेण प्राप्तं, तत्र तदुद्दे- शेन गुणमात्रं विघत्ते । यथा दध्ना जुहोतीत्यत्र होमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानं दध्ना होमं भावयेदिति । यत्र तू- भयमप्राप्तं तत्र विशिष्टं विधत्तेः यथा सोमेन यजेते- त्यत्र सोमयागयोरप्राप्तत्वात् सोमविशिष्टविधानम् । सामपदे मत्वर्थलक्षणया सोमवता यागेनेष्टं भावयेदिति वाक्यार्थकोधः । न चाभर्वविधाने वाक्यभेदः प्रत्ये- कमुभयस्याविधानात् । न च ज्योतिष्टोमेन स्वर्गकामो यजेतति विपिप्राप्तोद्देशेन सोमरूपगुणविधानमेवास्तु सोमेन यागं भावयेदिति, किं मत्वर्थलक्षणयेति वा- च्यम् । तस्याधिकारंविधित्वेगोत्पत्तिविधित्वासम्भवात् । ननूद्भिदा यजेत पशुकाम इत्यत्रेव ज्यातिष्टोमेनेत्यत्रःप्यु- त्पत्यधिकारविधित्वमस्त्विति चेन्न, दृष्टान्ते उत्पत्तिबा- क्यान्तराभावेनान्यथानुपपत्त्या तथात्वाश्रयणात् । किञ्च ज्योतिष्टोमेनेत्यस्योभयविधित्वे तेनैव यागस्तस्य फल- सम्बन्धोऽपि बोधनीय इति सुदृढो वाक्यभेदस्तद्वरं सोम- पदे मत्वर्फलक्षणया विशिष्टविधानम् । स च विधिश्चतुर्विधः उत्पात्तविधिर्विनियोगविधिः, अधिकारविधिः, प्रयोगवि- धिश्चेति । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः । यथाग्निहोत्र जुहोतीति । अत्र च विधौ कर्मणः करणत्वेनान्वयः आग्नहोत्रहोमेनेष्टं भागयेदिति । ननु यागस्य द्वे रूपे द्रव्यं देवता च! तथाच रूपाश्र- वणे अग्निद्वोत्रं जुहोतीति कथमुपत्तिविधिः अग्नि- होत्रशब्दस्य तु तत्प्रख्यन्यायेन नामधेयत्वादिति चेन्न रूपाश्रवणेऽप्यश्योत्मत्तिविधित्वात् । अन्न्यथा रूपश्रवणा- द्दध्ना जहोतीति अयमवोत्पत्तिविधिः स्यात् । तया चा- ग्निहात्र जहोतीति वाक्यमनर्थकं स्यात् । अङ्गप्रधान- सम्बन्धवाधको विधिर्विनियोगविधिः । यथा दघ्ना जुहो- तीति । स हि तृतीयया प्रतिपन्नाङ्गभावं दध्ना होम- सम्बन्धं विवत्ते दध्ना हीमं भावयेदिति । गुणविघौ च धात्वर्थस्य साध्यत्वेनैवान्वयः । क्वचिदाश्रयत्वेनापि यथा दध्नन्द्रियकामस्य जुहुयादित्यत्र दधिकरणत्वेने- न्द्रियं भावयेत् तच्च किंनिष्ठमित्य काङायां सन्निधि- प्राप्तहोम आश्रवत्वेनान्वेति । एतस्य विधेः सहकारि- मूतानि षट्प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थान- समाख्यारूपाणि । एतत्सहकृतेनानेन विधिनाङ्गत्वं परो- दृशप्रवृत्तकृतिसाव्यत्वरूपं परार्थ्यापरपर्य्यायं ज्ञाप्यते” ततः तत्सहकाराणि श्रुत्यादीनि निरूपितानि तत्र दृश्यानि “तदेवं निरूपितानि सङ्क्षेपतः श्रुत्यादीनि षट् प्रमाणानि । एतत् सहकृतेन विनियोगविधिना समिदा- दिभिरुपक्रम्य “दर्शपूणमासाभ्यां यजेत” इत्येवं रूपेण यानि विनियाज्यन्ते तान्यङ्गानि द्विविधानि सिद्धरू- पाणि, कियारूपाणि चेति । तत्र सिद्धानि जाति- द्रव्यसङ्ख्यादीनि तानि च दृष्टार्थान्येव । क्रियारूपाणि च । द्वबिवानि । गुणकर्माणि प्रधानकर्माणि च । एता- न्येव सन्निपत्योपकारकाणि आरादुपकारकाणीति चोच्यते । कर्माङ्गद्रव्याद्युद्देशेन विधीयमानं कर्म सान्न- पत्योपकारकम् । यथाऽवघातप्रोक्षणादि तच्च दृष्टार्थ- मदृष्टार्थं दृष्टादृष्टार्थं चेति । दृष्टार्थमवर्घातादि अदृ- ष्टार्थं प्रोक्षणादि । दृष्टादृष्टार्थं पशुपुरोडाशादि । तद्धि द्रव्यत्यागांशेनैवादृष्टं देवतोद्देशेन च देवतास्मरणं दृष्टं करोति । द्रव्याद्यनुद्दिश्य केवलं विधीयमान कर्म त्वारादुपकारकम् । यथा प्रयाजादि । आरादुपका- रकञ्च परमापूर्वोत्पत्तावेवोपयुज्यते । सन्निपत्योपकारकन्तु द्रव्यदेवतासंस्कारद्वारा यागस्वरूपेऽप्युपयुज्यते । इदमेव चाश्रयिकर्मेत्युच्यते । तदेवं निरूपितः सङ्खेपतो वि- नियोगविधिः । प्रयोगप्राशुभाववोधको विधिः प्रयाग- विधिः । स चाङ्गवाक्यैकतापन्नः प्रधानविधिरेव । स हि साङ्गं प्रधानमर्नुष्ठापयन्विलम्बे प्रमाणाभावादविलम्बा- परपर्य्याय प्रयोगप्राशुभावं विधत्ते । न च तदवि- लम्बेऽपि प्रमाणाभाव इति वाच्यं विलम्बे ह्यङ्गप्रधान- विध्येकवाक्यतावगततत्साहित्यानुपपत्तिः विकस्तेन कि- यमाणयोः पदार्थयोः इदमनेन सहकतमिति साहिन्य- व्यवहाराभावात् । स चाविलन्वी नियते क्रम आश्रि- यमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत् कर्त्त- व्यमेददनन्तरं वेति प्रयोगविक्षेपापत्तेः । अतः प्रयोग- विधिरेव स्वविधेयप्रयोगप्राशुभावसिद्ध्यर्थं नियतं क्रममपि पदार्थविशेषणतया विधत्ते । अतएवाङ्गानां क्रमबोधको विधिः प्रयोगविधिरित्यपि लक्षणम्” । “तदेवं संक्षेपतो निरूपितः षड्विध क्रमनिरूपणेन प्रयोगविधिः । कर्भजन्यफलस्वास्यबोधकोविधिरधिकार- विधिः । कर्मजन्यफलखान्यं च कर्मसन्यफलभोक्तृत्वम् । स च यजेत स्वर्गकाम इत्यादिरूपः, र्गमुद्दिश्य यागं विदधतानेन स्वगकामस्य यागजन्यफलभोक्तृत्वं प्रति- पाद्यते “यस्याहिताग्नेरग्निर्गृहान्दहेत्सोऽग्नयेऽणामव- तेऽष्टाकपालं पुरोडाशं निर्वपेत” इत्यादिना दाहादौ नि- मित्ते कर्म विदघता निमित्तवत कर्मजन्यपापक्षयरूप- फलस्वाम्यं प्रतिपाद्यते । एवम् “अहरहः सन्ध्यामुपा- सीत” इत्यादिना शचिविहितकालजीविनः सन्ध्योपासना- जन्यप्रत्यवायपरिहाररूपफलस्वाम्यं बोध्यते । तच्च फल- स्वाम्यं तस्यैव योऽधिकारविशिष्टः । अधिकारश्च स एव यद्विधिवाक्ये पुरुषविशेषणत्वेन श्रूयते यथा काम्ये कर्मणि फलकामना । नैमित्तिके कर्मणि निमित्तनिश्चयः । नित्ये सन्ध्योपासनादौ शुचिविहितकालजीवित्वम् अत- एव “राजा राजसूयेन स्वाराज्यकामोयजेत” इत्यनेन वि- षिवाठ्येन स्वाराज्यमुद्दिश्य राजसूयं विदधता न स्व- राज्यकाममात्रस्य फलभोक्तृत्वं प्रतिपाद्यते किन्तु राज्ञः सत स्वाराज्यकामस्यैव राजसूयस्यापि अधिकारि- विशेषणत्वेन श्रवणात् । किञ्चित् तु पुरुषविशेषणत्वेना- श्रुतमप्यधिकारिविशेषणं यथाध्ययनविधिसिद्धा विद्या क्रतुविधीनामर्थज्ञानापेक्षत्वेनाध्ययनविधिसिद्धार्थज्ञानवन्त- प्रत्येव प्रवृत्तेः । एवमग्निसाध्यकर्मसु आधानसिद्धाग्नि- मता अग्निसाध्यकर्मणा । मग्न्यपेक्षत्वेन तद्विघीनामाधान- सिद्धाग्निमन्तं प्रत्येव प्रवृत्तेः । एवं सामर्थ्यमपि आख्या- तानामर्थं ब्रुवतां शक्ति सहकारिणोति न्यायात् स- मर्थं प्रत्येव विधिप्रवृत्तेः । तदेवं निरूपितो विधिः” । विधिरसायने च विधिभेदोऽन्यथा दर्शितो यथा “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चा- न्यत्र च प्राप्तौ परिसंख्येति गोयते” तत्तच्छब्दे विशेषो दृश्यः । १२ अर्थालङ्कारभेदे च । अलङ्कारशब्दे ४०३ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
विधिः || पुं, (विधति विदधाति विश्वमिति । विध विधाने + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । स च कित् ।)
ब्रह्मा । (यथा, नैषधे । २२ । ४७ । “विधिर्विधत्ते विधुना बधूनां किमाननं काञ्चनसञ्चकेन ॥” * ॥
विधीयेते सुखदुःखे अनेनेति । वि + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।)
भाग्यम् । (यथा, मार्कण्डेये । ८ । १८२ । “राज्यनाशं सुहृत्यागो भार्य्यातनयविक्रयः । हरिश्चन्द्रस्य राजर्षेः किं विधे ! न कृतं त्वया ॥”)
क्रमः । विधानम् । इत्यमरः ॥ कालः । इति मेदिनी । धे, १७ ॥ विधिवाक्यम् । (यथा, गीतायाम् । १६ । २३ । “यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥”)
प्रकारः । नियोगः । इति हेमचन्द्रः ॥ विष्णुः । इति हलायुधः । कर्म्म । इति त्रिकाण्डशेषः ॥ (यथा, देवीपुराणे । “तस्मात् सूर्य्यः शशाङ्कस्य क्षयवृद्धिविधेर्विभुः ॥”)
गजान्नम् । इति जटाधरः ॥ वैद्यः । इति राजनिर्घण्टः ॥ यागोपदेशकग्रन्थः । इति भरतधृतकोषः ॥ षड्विधसूत्रलक्षणान्तर्गत- लक्षणविशेषः । यथा, —
“संज्ञा च परिभाषा च विधिर्नियम् एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥” अप्राप्तप्रापको विधिः । स तु द्बिविधः । वर्णोत्- पादनरूपोऽभावरूपश्च । वर्णोत्पादनरूपो यथा सहर्णे र्घ इत्यादि । अभावरूपो द्विविधः । नाशो निषेधरूपश्च । नाशविधिर्यथा । लोपो- ऽस्योमाङोरित्यादि । निषेधविधिर्यथा । नाजो- ऽन्त इत्यादि । सामान्यप्राप्तस्य विशेषावधारणं नियमविधिः । यथा । रङो विः सुपि इत्यादि । अन्यधर्म्मस्यान्यत्रारोपणमतिदेशविधिः यथा । इन्वदिक् इत्यादि । पूर्ब्बसूत्रस्थितपदस्य पर- सूत्रेषूपस्थितिरधिकारविधिः । स तु त्रिविधः । “सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च । गङ्गाश्रोत इति ख्यातश्चाधिकारास्त्रयो मताः ॥” सिंलावलोकितो यथा । वावगोर्द्दान्ते इत्यस्मात् दान्ते इति पदस्य ऋक्यगित्यन्तेषूपस्थितिः । मण्डूकप्लुतिर्यथा । टाभिस्ङेङसीत्यस्मात् अत इति पदस्य आक्तिमभवि इत्यत्रोपस्थितिः । गङ्गाश्रोतो यथा । लेः सि औ जस् इत्यस्मात् लेरिति पदस्य तद्धितपर्य्यन्तेषूपस्थितिरिति । एवञ्च । “कार्य्यी कार्य्यं निमित्तञ्च त्रिभिः सूत्रमुदा- हृतम् । कदाचित् कार्य्यिकार्य्याभ्यां क्वचित् कार्य्यनिमि- त्ततः ॥ यस्य निर्द्दिश्यते कार्य्यं स कार्यी गदितो बुधैः । क्रियते यत्तु तत् कार्य्यमादेशप्रत्ययागमम् ॥ यस्मात् परं परे यस्मिन् तन्निमित्तं द्विधा मतम् । आकाङ्क्षायान्तु सर्व्वेषामनुवृत्तिः परे भवेत् ॥” इति ॥ एवञ्च । “बहिरङ्गविधिभ्यः स्यादन्तरङ्गविधिर्ब्बली । प्रत्ययाश्रितकार्य्यन्तु बहिरङ्गमुदाहृतम् ॥ प्रकृत्याश्रितकार्य्यं स्यादन्तरङ्गमिति ध्रुवम् । प्रकृतेः पूर्ब्बपूर्ब्बं स्यादन्तरङ्गतरं तथा ॥ सावकाशविधिभ्यः स्याद्बली निरवकाशकः । कस्यचिद्भिन्नकार्य्यस्य प्रथमे परतस्तथा । सम्भवेद्विषयो यस्य स भवेत् सावकाशकः ॥ आदौ हि विषयो यस्य परतो न हि संभवेत् । स पण्डितगणैरुक्तो विधिर्निरवकाशकः ॥ तथा सामान्यकार्य्येभ्यो विशेषकविधिर्ब्बली । बहवो विषया यस्य स सामान्यविधिर्भवेत् ॥ स्वल्पः स्याद्विषयो यस्य स विशेषविधिर्म्मतः । आगमादेशयोर्म्मध्ये बलीयानागमो विधिः ॥ प्रकृतिं प्रत्ययञ्चापि यो न हन्ति स आगमः । आदेश उपघाती यः प्रकृतेः प्रत्ययस्य वा ॥ सकलेभ्यो विधिभ्यः स्याद्बली लोपविधिस्तथा । लोपस्वरादेशयोस्तु स्वरादेशो विधिर्बली ॥” इति मुग्धबोधव्याकरणटीकायां दुर्गादासः ॥ * ॥
अथ विधिभदाः । तत्र कश्चित् प्रधानविधिः । स तु स्वतः फलहेतुक्रियाबोधकः । यथा । यजेत स्वर्गकाम इत्यादि । कश्चिदङ्गविधिः । स तु स्वतः फलहेतुक्रियायां कथमित्याकाङ्क्षायां विधायकः । यथा । इडो यजति इत्यादि । कश्चित प्रयोगविधिः । स तु यावदङ्गयुक्तक्रिया- बोधकः । यथा । यावदङ्गयुक्तं यजेत विलक्षण- स्वर्गकाम इत्यादि । कश्चिद्गुणफलविधिः । स तु आकाङ्क्षानिवृत्तौ अधिकफलाय प्राप्त- कर्म्मणि गुणविधिः । यथा । गोदोहेनापः प्रणयेत् पशुकाम इत्यादि । प्रधानविधिश्च द्बिविधः । उत्पत्तिर्नियोगश्चेति । तत्रोत्पत्तिस्तु कर्म्मस्वरूप- बोधकः । यथा आग्नेयाष्टाकपालः अमा- वास्यायां पौर्णमास्याञ्चाच्युतो भवति इत्यादि । नियोगश्च स्वर्गकामाद्यधिकारिबोधकः । यथा । स्वर्गकामो यजेत इत्यादि । अङ्गविधिस्तु काल- देशकर्त्रादिबोधकतया अनियत एव । प्रधानाङ्ग- विध्योर्विधेयाप्राप्तिप्राप्तिभ्यां त्रैविध्यम् । तत्र अप्राप्तितो द्वैविध्यम् । तत्राप्यत्यन्ताप्राप्तौ अपूर्ब्बविधिः । पक्षतोऽप्राप्तौ नियमविधिः । विधेयतत्प्रतिपक्षयोः प्राप्तौ परिसङ्ख्याविधिः । अतएवोक्तम् । “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्ख्या विधीयते ॥” तत्र प्रधानस्य विधिभेदो यथा । अहरहः सन्ध्यामुपासीत इत्यादिरपूर्ब्बविधिः । अत्र विथेयस्य सन्ध्यादेः शास्त्रतो रागतो न्यायतो वा कचिदप्यप्राप्तेः । तथा ऋतौ भार्य्यामुपेयात् इत्यादिर्नियमविधिः । विधेयस्य भार्य्याभि- गमनस्य रागतः प्राप्तावपि रागाभावात् पक्षतोऽप्राप्तेः । तथा । प्रोक्षितं मांसं भुञ्जीत इत्यादिः परिसङ्ख्याविधिः । विधेयस्य प्रोक्षित- मांसभक्षणस्य च रागतः प्राप्तेः । अङ्गस्य विधिभेदो यथा । शारदीयपूजायामष्टम्या- मुपवसेत् इत्यादिरपूर्ब्बविधिः । अत्र विधेयस्यो- पवासस्य एतदन्यशास्त्रतो रागतो न्यायतो वा क्वक्षिदप्राप्तेः । तथा श्राद्धे भुञ्जीत पितृसेवित- मित्यादिनियमविधिः । विधेयस्य श्राद्धशेष- भोजनस्य रागतः प्राप्तावपि रागाभावात् पक्षतोऽप्राप्तेः । तथा । वृद्धिश्राद्धे प्रातरामन्त्रि- तान् विप्रान् इत्यादिः परिसङ्ख्याविधिः । तत्र विधेयस्य प्रातर्निमन्त्रणस्य तत्प्रतिपक्षस्य पूर्ब्ब- दिनसायं निमन्त्रणस्य च पार्व्वणवन्न्यायतः प्राप्तेरिति स्मृतेरुदाहरणम् । इति धर्म्म- दीपिका ॥ * ॥
न्यायमते विधिर्यथा, —
“प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा । तजज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा ॥” विधिजन्यज्ञानात् प्रवृत्तिर्दृ श्यते सा इच्छातः चिकीर्षातः चिकीर्षा च कृतिसाध्यत्वेष्टसाधनत्व- ज्ञानात् तज्ज्ञानस्य विषयः कार्य्यत्वं इष्टसाधन- त्वञ्च विधिरिति प्राचीनमतम् ॥ स्वमतमाह तज्ज्ञापकोऽथवेति इष्टसाधनत्वानुमापक आप्ताभिप्रायो विधिप्रत्ययार्थः । इति हरि- दासीयकुसुमाञ्जलिः ॥ * ॥
अपि च आश्रयत्व- सम्बन्धन प्रत्ययोपस्थापितेष्टसाधनत्वान्वितस्वार्थ- परपदघटितवाक्यत्वं विधित्वम् । मीमांसकमते इष्टसाधनत्वं कृतिसाध्यत्वञ्च पृथग्विध्यर्थः । इति गदाधरभट्टाचार्य्यकृतविधिस्वरूपः ॥