संस्कृत-शब्दकोशः

विनया विनष्ट

विनशन

वाचस्पत्यम्

विनशन ||‍ न० वि + नश—ल्युट् । १ विनाशे । विनश्यति पदर्शनं गच्छति सरस्वत्यत्र वि—नश + आधारे ल्युट् । २ कुरु- क्षेत्रस्थे तीर्थभेदे त्रिका० । “हिमवद्विन्ध्ययोर्मध्यं यत् माग् विनशनादपि” मनुः । स च सरस्वत्यन्त- र्धानदेश एव प्रभासतीर्थसन्निकृष्टनिषादपुरसमीपस्थः यथोक्तं भा० व० १३० अ० । “एषा सरस्वती रम्या दिव्या चोघवती गदी । एतद्विन- शनं नाक सरस्यत्या विशाम्पते । द्वारं निपादरष्ट्रस्य येषां दोषात् सरस्वई । प्रविष्टा पृथिवीं वीर! मा निषादा हि मां विदुः” । “शुक्लपक्षसप्तम्या दीक्षा सरस्वतीविनशते” कात्या० श्री० २४ । ५ । ३० । “सरस्वतीविनशने सरस्वती समुद्रसङ्गमे प्रभासे मारस्वतसत्रार्थं दीक्षा भवति” कर्कः यत्र सरस्वत्यन्तर्भवति तद्विनशनमुच्यत इत्याग्नस्वामिनः । “सरस्वती नाम नदा प्रत्यक्स्रोता प्रवहात तस्याः प्राग परभागौ सर्वलोकप्रत्यक्षौ मध्यमस्तु मागो भूम्यन्त- र्निमग्न प्रवहति नासौ केनाचद् दृश्यते तद्विनशन- मुच्यत” इति लाट्या० १० । १५ । १ माधवाचार्य्याः ।


शब्दकल्पद्रुमः

विनशनं || क्ली (विनश्यति अन्तर्दधाति सरस्वत्य- त्रेति । वि + नश + अधिकरणे ल्युट् ।)
कुरु- क्षेत्रम् । तच्च हस्तिनाया उत्तरपश्चिमे वर्त्तते । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ । ८२ । १०५ । “ततो विनशनं गच्छेन्नियतो नियताशनः । गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती ॥” वि + नश + भावे ल्युट् ।)
विनाशश्च ॥



Correction: