वाचस्पत्यम्
विनष्ट || त्रि० वि + नश—स्य । १ विनाशपतियागिनि २ पतिते च “विनष्टे वाप्यशरणे पितर्युपरतस्पृहे” नारदः । “विनष्टे पतिते” दायभा० ।
शब्दकल्पद्रुमः
विनष्टः || त्रि (वि + नश + क्तः ।)
नाशाश्रयः । ध्वंसविशिष्टः । यथा । शिखी विनष्टः पुरुषो न नष्टः । इति विशेषव्याप्तिटीकायां मथुरानाथः ॥ पतितः । यथा नारदः । “विनष्टे वाप्यशरणे पितर्य्युपरतस्पृहे ॥” विनष्टे पतिते । इति दायभागः ॥