शब्दकल्पद्रुमः
विनिक्षिप्तः || त्रि विनिक्षेपाश्रयः । परित्यक्तः । विनिपूर्ब्बकक्षिपधातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, देवीभागवते । २ । ८ । २७ । “पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतो- रगः ॥”)