शब्दकल्पद्रुमः
विनिगमना || स्त्री एकतरपक्षपातिनी युक्तिः । एकतरावधारणा । यथा । उच्यते । एकदेशो- पात्तस्यैव भूहिरण्यादावुत्पन्नस्य स्वत्वस्य विनि- गमनाप्रमाणाभावेन वैशेषिकव्यवहारानर्हतया अव्यवस्थितस्य गुटिकापातादिना व्यञ्जनं विभागः । इति दायभागः ॥ उच्यत इति भूहिरण्यादावुत्पन्नस्य एकदेशोपात्तस्य तत्तदं- शावच्छिन्नस्य विनिगमना इदममुकस्य नान्य- स्येत्यवधारणरूपा तत्प्रमाणभावेन वैशेषिक- व्यवहारः परस्परनैरपेक्षेण दानविक्रयादि- लक्षणस्तदनर्हतया अव्यवस्थितस्य सतोऽप्यसत्- कल्पस्य गुटिकापातादिना व्यञ्जनं इदं अमुक- स्येत्यवधारणं विभाग इत्यर्थः । इति तट्टीकायां श्रीकृष्णतर्कालङ्कारः ॥