संस्कृत-शब्दकोशः

विनिद्रत्व विनिमय

विनिपात

वाचस्पत्यम्

विनिपात ||‍ पु० वि + नि + पत—घञ् । १ निपाते २ दैवादिकृते व्यसने मेदि० ३ अपमाने च हेमच० ।


शब्दकल्पद्रुमः

विनिपातः || पुं, (विशेषेण निपतनम् । वि + नि + पत + घञ् ।)
निपातः । दैवादिव्यसनम् । इति मेदिनी । ते, २१७ ॥ अवमानः । इति हेम- चन्द्रः ॥ (यथा, मनौ । ४ । १४६ । “मङ्गलाचारयुक्तानां नित्यञ्च प्रयतात्मनाम् । जपतां जुह्वताञ्चैव विनिपातो न विद्यते ॥”)



Correction: