वाचस्पत्यम्
विनिमय || पु० वि + नि + मि—अच् । परिवर्त्ते १ तुल्यद्रव्यदानेन द्रव्यान्तरग्रहणे शब्दच० । २ बन्धक च शब्दमा० ।
शब्दकल्पद्रुमः
विनिमयः || पुं, (वि + नि + मी + अप् ।)
परि- दानम् । प्रतिदानम् । इति शब्दरत्नावली ॥ (यथा, रघुः । १ । २६ । “दुदोह गां स यज्ञाय शस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥”)
बन्धकः । इति शब्दमाला ॥ यथा, —
“विक्रयैर्गां विनिमयैर्दत्त्वा गोमांसखादके । व्रतं चान्द्रायणं कुर्य्याद्वधे साक्षाद्वधी भवेत् ॥” इति प्रायश्चित्ततत्त्वधृतगोभिलवचनम् ॥