शब्दकल्पद्रुमः
विन्ध्यवासिनी || स्त्री (विन्ध्ये वसतीति । वस् + णिनिः । ततस्त्रियां ङीप् ।)
दुर्गा । यथा, —
“सहस्राक्षोऽपि तां गृह्य विन्ध्यं वेगाज्जगाम ह । तत्र गत्वा तथोवाच तिष्ठस्वात्र महावने ॥ पूज्यमाना सुरैर्नाम्ना ख्याता त्वं विन्ध्यवासिनी ॥ तत्र स्थाप्य हरिर्देवीं दत्त्वा सिंहञ्च वाहनम् । भवामरारिहन्त्रीति ह्युक्त्वा स्वर्गमवाप्नुयात् ॥” इति वामने ५१ अध्यायः ॥ * ॥
अन्यच्च देवीपुराणे ४५ अध्याये । “विन्ध्येऽवतीर्य्य देवार्थं हतो घोरो महाभटः । अद्यापि तत्र सावासा तेन सा विन्ध्यवासिनी ॥”