संस्कृत-शब्दकोशः

विन्ध्यकूट विन्ध्यवासिनी

विन्ध्यवासिना

वाचस्पत्यम्

विन्ध्यवासिना ||‍ स्त्री विन्ध्येऽचले वसति वस—णिनि ङीप् । यशोदागर्भजातायां दुर्गायाम् । “महस्राक्षोऽपि तां (यशोदागर्भजकन्याम्) गृह्य विन्ध्यं वेगाज्जगाम ह । तत्र गत्वा तथोवाच तिष्ठस्वात्र महावने । पूज्यमाना सुरैर्नाम्ना ख्याता त्वं बिन्ध्यवासिनी” वामनपु० ५१ अ० । “ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी” देवीपा० । २ व्याडिमुनौ पु० हेमच० । विन्ध्यस्थोऽप्यत्र जटा० ।



Correction: