संस्कृत-शब्दकोशः

विपक्त्रिम विपञ्चिका

विपक्ष

वाचस्पत्यम्

विपक्ष ||‍ त्रि० विरुद्धः पक्षो यस्य । १ शत्रौ अमरः । २ प्रतिकूल- पक्षावलम्बिनि च । विरुद्धः पक्षः प्रा० स० । ३ प्रतिकूले पक्षे विवादे अर्थिसमल्लिखितपक्षस्य विरुद्धे ४ पक्षे च ।


शब्दकल्पद्रुमः

विपक्षः || पुं, (विरुद्धः पक्षो यस्य ।)
शत्रुः । इत्य- मरः ॥ (यथा हरिवंशे । ५३ । ५४ । “तत्र वंशा विभज्यन्तां विपक्षः पक्ष एव च । पुत्त्राणां हि तयो राज्ञो भविता विग्रहो महान् ॥” यथा च रघुवंशे । १७ । ७५ । “इन्दोरगतयः पद्मे सूर्य्यस्य कुमुदेऽंशवः । गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्त- रम् ॥” न्यायमते साध्याभाववत्पक्षः । यथा, भाषा- परिच्छेदे । ७३ । “यः सपक्षे विपक्षे च भवेत् साधारणस्तु सः ।” “सपक्षविपक्षवृत्तिः साधारणः । सपक्षः साध्यवान् । विपक्षः साध्याभाववान् ।” इति मुक्तावली ॥ विकल्पः पक्षः । उक्ताकरणम् । यथा, आर्य्यासप्तशत्याम् । ३५४ । “प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथा गुरुषु ॥” विगतः पक्षो यस्य । पक्षहीने, त्रि ॥)



Correction: