वाचस्पत्यम्
विपरीत || त्रि० वि + परि + इण—क्त । १ प्रतिकूले जटा० । २ त्यक्त- क्रमे च ३ कामुक्यां स्त्री ४ नारीणां पुरुषायितरसणे नं “म- हाकालेन च समं विपरीतरतातुराम्” कर्पूरस्तवः । “पाद- मेकमूरौ कृत्वा द्वितीयं कटिसंस्थितम । नारीपु रमते कामी विपरीतस्तु बन्धक” रतिम० उक्ते ५ रतिबन्धभेदे । संज्ञायां कम् । “पादमेकमूरा कत्वा द्वितीयं स्कन्धसंस्थि- तम् । कामिनीं कामयेत् कामी बन्धः स्यात् विपरीतकः” स्मरदीपिकोक्ते रतिमन्धभेदे ।
शब्दकल्पद्रुमः
विपरीतः || त्रि (वि + परि + इ + क्तः ।)
विप- र्य्ययः । उल्टा इति भाषा ॥ तत्पर्य्यायः । प्रतिसव्यः २ प्रतिकूलः २ अपसव्यः ४ अपष्टुः ५ विलोमकः ६ । इति जटाधरः ॥ प्रसव्यम् ७ पराचीनम् ८ प्रतीपम् ९ । इति शब्दरत्ना- वली ॥ (यथाच शङ्करदिग्विजये । “मत्तो जातः कलञ्जाशी विपरीतानि भाषसे । सत्यं ब्रवीषि पितृवत् त्वत्तो जातः कलञ्जभुक् ॥” मुमूर्षुः । यथा, रामायणे । ६ । १७ । १५ । “स च न प्रतिजग्राह रावणः कालचोदितः । उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥”)
षोडशरतिबन्धान्तर्गतदशभबन्धः । यथा, —
“पादमेकमूरौ कृत्वा द्वितीयं कटिसंस्थितम् । नारीषु रमते कामी विपरीतस्तु बन्धकः ॥” इति रतिपञ्जरी ॥ अपिच । “पादमेकमूरौ कृत्वा द्वितीयं स्कन्धसंस्थितम् । कामिन्याः कामयेत् कामी बन्धः स्याद्विपरी- तकः ॥” इति स्मरदीपिका ॥