वाचस्पत्यम्
विपर्य्यास || पु० वि + परि + अस—घञ् । १ वैपरीत्ये २ व्यति- क्रमे ३ उत्क्षेपे च । ४ विपर्य्यये भ्रान्तौ च ।
शब्दकल्पद्रुमः
विपर्य्यासः || पुं, (वि + परि + अस + घञ् ।)
विप- र्य्ययः । इत्यमरः ॥ (यथा, उत्तरचरिते । २ । “पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्य्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्द्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥” अप्रमात्मकबुद्धिभेदः । यथा, भाषापरिच्छेदे । “तच्छून्ये तन्मतिर्यास्यादप्रमा सा निरूपिता । तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः । आद्यो देहे ह्यात्मबुद्धिः शङ्खादौ पीतता- मतिः ॥” “आद्यो विपर्य्यासः ।” इति मुक्तावली ॥)