वाचस्पत्यम्
विपाशा is an alternate of विपाश्. विपाश्(शा) || स्त्री विगतः पाशो वशिष्ठस्य यस्याः । स्वनामख्याते नदीभेदे अमरः । विपाशयति विभुक्तपाशं वशिष्ठं करोति विपाश + णिच्—क्विप् । तत्रार्थे अमरः । तस्या- स्तथात्वकथा भा० आ० १७७ अ० । “अथ पाशैस्तदात्मानं गाढं वद्ध्वा महामुनिः (वशिष्ठः) तस्या जले महानद्या निममज्ज सुदुःखितः । अथ छित्त्वा नदी पाशांस्तस्यारिबलसूदन! । स्थलस्थ तमृषि कृत्वा विपाशं समवासृजत् । उत्ततार ततः पाशैर्विमुक्तः स महानृषिः । विपाशेति च नामा- स्यानद्याश्चक्र महामुनः” “शतद्रोर्विपाशायुजः सिन्धु- नद्याः सुशीतं लघु स्वादु सर्वामयघ्नम् । जलं निर्मलं दीपनं पाचनञ्च प्रदत्ते बलं बुद्धिमेधायुषञ्च” राजनि० ।
शब्दकल्पद्रुमः
विपाशा || स्त्री (पाशं विमोचयतीति । पाश + “सत्यापपाशेति ।” ३ । १ । २५ । विमोचने णिच् । ततः पचाद्यच् ।)
नदीविशेषः । इत्यमरः ॥ पुत्त्रशोकादेव गले पाशं बद्ध्वा प्रविष्टं वशिष्ठं पाशच्छेदात् विपाशितवती विमुक्तपाशं कृत- वतीति विपाशा ञिः कल्यादेरिति पाशं विमोचयति इत्यर्थे ञिः पचादित्वादन् आप् । एवं क्विपि विपाट् । इति तट्टीकायां भरतः ॥ * ॥
(यथा, हरिवंशे । १६६ । २० । “इरावती विपाशाच सरयूर्यमुना तथा ॥”)
तस्या जलगुणाः । “शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्व्वामयघ्नम् । जलं निर्म्मलं दीपनं पाचनञ्च प्रदत्ते बलं बुद्बिमेधायुषञ्च ॥” इति राजनिर्घण्टः ॥ (अस्या नामनिरुक्त्यादि विशेषविवरणं महा- भारते । १ । १७८ । अध्याये द्रष्टव्यम् ॥ अस्या- स्तीरे पीठस्थाने अमोघाक्षीदेवी वर्त्तते । यथा, देवीभागवते । ७ । ३० । ६५ । “विपाशायाममोघाक्षी पाटला पुण्ड्रवर्द्धने ॥” तथा अत्र यशस्करनामकविष्णुमूर्त्तिरपि वर्त्तते । यथा, नरसिंहपुराणे ६२ अध्याये । “यशस्करं विपाशायां माहिष्मत्यां हुताश- नम् ॥” विगतः पाशो यस्य ।)
पाशवर्ज्जिते, त्रि । इति धरणिः ॥ (यथा, महाभारते । ३ । १३० । ९ । “अत्र वै पुत्त्रशोकेन वशिष्ठो भगवानृषिः । बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः ॥” पाशास्त्रहीने च त्रि ॥ यथा, हरिवंशे । ४७ । ४८ । “निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे ॥”)