शब्दकल्पद्रुमः
विपादिका || स्त्री पादस्फोटः । इत्यमरः ॥ (यथा, राजतरङ्गिण्याम् । ८ । १३७ । “छिन्नोपानत कशाबन्धे शतं चर्म्मकृतेऽर्पितम् । विपादिकाकृते दास्या नीतं पञ्चाशतो घृतम् ॥”)
“वैपादिकं पाणिपादे स्फुटनं तीव्रवेदनम् । कण्डुमद्भिः सरागैश्च गण्डैरलसकं चितम् ॥” विपादिका वातश्लेष्मोद्भवा । इति माधवकरः ॥ अयं कुष्ठरोगः ॥ (अस्या लक्षणम् । यथा, —
“कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेव ॥” इति सुश्रुते निदानस्थाने पञ्चमेऽध्याये ॥)
प्रहेलिका । इति शब्दमाला ॥ * ॥