संस्कृत-शब्दकोशः

विपिन विपुलरस

विपुल

वाचस्पत्यम्

विपुल ||‍ त्रि० वि + पुल—विस्तारे क । १ विस्तीर्णे अमरः । २ अगार्धे ३ मेरुपश्चिमस्थे भूधरभेदे पु० मेदि० ४ मेरौ ५ हिमाचले च धरणिः । ६ आर्य्याछन्दोभेदे स्त्री । “सलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । यस्यास्तां पिङ्गलनागा विपुलामिति समाख्याति” वृ० र० । विपुलाचलश्च मेरोर्विष्कम्मपर्वतभेदो यथोक्तम् विष्णुपु० “मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभाग! चत्वार उपपर्वताः । विष्कम्भा रचिता मेरो- र्योजनायुतसंस्थिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्ध- मादनः । विपुलः पश्चिमे भाग सुपार्श्वश्च तथात्तरे” तत्र चिह्नवृक्षादिकं तत्राक्तं यथा “कदम्ब १ स्तेषु जम्बू २ श्च पि- प्पलो ३ वट ४ एव च । एकादशशतायामाः पादपा गिरि- केतवः । वनं चैत्ररथं १ पूर्वं दक्षिणा गन्धमादनम् २ । वैभ्राजं ३ पश्चिमे तद्वदुत्तरे नन्दनं ४ स्मृतम् । अरुणोदं १ महाभद्रं २ शशिमेदं ३ च मानसम् । सरांस्येव च चत्वारि देवभोग्यानि सर्वदा” । धान्यशैलशब्दे दर्शिते दानार्थं कल्पिते तिलमथे ७ तन्नामकपर्वते हेमा० दा० ।


शब्दकल्पद्रुमः

विपुलः || त्रि (विशेषेण पोलतीति । वि + पुल महत्त्वे + कः ।)
बृहत् । इत्यमरः ॥ (यथा, साहित्यदर्पणे । १० । “विपुलेन सागरशयस्य कुक्षिणा ॥”)
अगाधम् । इति मेदिनी । ले, १३२ ॥


शब्दकल्पद्रुमः

विपुलः || पुं, (वि + पुल + कः ।)
मेरुपश्चिमभूधरः । इति मेदिनी । ले, १३२ ॥ (अयं हि सुमेरो- र्व्विष्कम्भपर्व्वतानामन्यतमः । यथा, विष्णुपुराणे । २ । ३ । १७ । “विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोक्षरे स्मृतः ॥” अस्मिंस्तु पीठस्थाने विपुलेति पीठदेवी वर्त्तते । यथा, देवीभागवते । ७ । ३० । ६६ । “विपुले विपुला देवी कल्याणी मलयाचले ॥”)
सुमेरुः । हिमाचलः । इति धरणिः ॥ (वसुदेव- पुत्त्रः । यथा, भागवते । ९ । २४ । ४६ । “बलं गदं सारणञ्च दुर्म्मदं विपुलं ध्रुवम् । वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ॥”)



Correction: