शब्दकल्पद्रुमः
विपुला || स्त्री (वि + पुल महत्त्वे + कः । ततस्त्रियां टाप् ।)
पृथिवी । आर्य्याच्छन्दोभेदः । इति हेमचन्द्रः ॥ अस्या लक्षणादिर्यथा, —
“पथ्या विपुला चपला मुखचपला जघन- चपला च । गीत्युपगीत्युद्गीतय आर्य्यागीतिश्च नवधार्य्या ॥ संलङ्व्य गणत्रयमादिमं सकलयोर्द्वयोर्भवति पादः । यस्यास्तां पिङ्गलनागो विपुलामिति समा- ख्याति ॥ पंसां कलिकालव्यालहतानां नास्त्युपहतिर- ल्पापि । वीर्य्यविपुला मुखे चेत् स्यात् गोविन्दाख्यमन्त्र- कला ॥” इति छन्दोमञ्जरी ॥ (विपुलपर्व्वतस्थादेवी । इति देवीभागवतम् । ७ । ३० । ६६ ॥)