वाचस्पत्यम्
विप्रलम्भ || पु० वि + प्र + लभ—घञ् मुम् च । १ विसंवादे, २ वञ्चने, ३ विरहे च अमरः । “यूनोरयुक्तयोर्भावो युक्तयोर्वाथ वा मिथः । अभीष्टालिङ्गनादीनामनवाप्तौ प्रहृव्यते । स विप्रलम्भो विज्ञेयः” उज्ज्वलमण्युक्ते ४ शृङ्गारावस्थाभेदे ।
शब्दकल्पद्रुमः
विप्रलम्भः || पुं, (वि + प्र + लभ + घञ् । नुम् ।)
विसंवादः । (यथा, महाभारते । ३ । ३१ । २७ । “विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥”)
बञ्चनम् । (यथा, महाभारते । ५ । १९१ । १६ । “ततो दशार्णाधिपतेः प्रेष्याः सर्व्वा न्यवेदयन् । विप्रलम्भं यथा वृत्तं स च चुक्रोध पार्थिवः ॥”)
विप्रयोगः । विच्छेदः । इत्यमरः ॥ शृङ्गाररस- भेदः । यथा, शब्दरत्नावल्याम् । “नामान्येतानि शृङ्गारे कैशिकः शुचिरुज्ज्वलः । सम्भोगो विप्रलम्भश्च तस्य भेदद्बयं भवेत् ॥” शृङ्गाराङ्गविशेषः । यथा, —
“यूनोरयुक्तयोर्भावो युक्तयोर्वाथ यो मिथः । अभीष्टालिङ्गनादीनामनवाप्त्यै प्रहृष्यते । स विप्रलम्भो विज्ञेयः सम्भोगोन्नतिकारकः ॥” इत्युज्ज्वलनीलमणिः ॥