संस्कृत-शब्दकोशः

विप्रस्व विप्रुष

विप्रिय

वाचस्पत्यम्

विप्रिय ||‍ पु० विरुद्धं प्रियं वि + प्री—क वा । १ अपराधे हेमच० । २ अप्रिये च “कृतवानसि विप्रियं न मे” कुमार प्रादि० ६ व० । विगतपिये त्रि० ।


शब्दकल्पद्रुमः

विप्रियः || पुं, (विरुद्धं प्रीणातीति । प्री + कः ।)
अपराधः । तत्पर्य्यायः । मन्तुः २ व्यलीकम् ३ आगः ४ । इति हेमचन्द्रः ॥ (यथा, भाग- वते । ६ । ५ । ४२ । “यन्नस्त्वं कर्म्मसन्धानां साधूनां गृहमेधिनाम् । कृतवानसि दुर्म्मर्षं विप्रियं तव मर्षितम् ॥”)
अप्रिये, त्रि । (यथा, महाभारते । १ । १६० । ८ । “पिण्डं पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत् ॥”)



Correction: