वाचस्पत्यम्
विप्रुष || स्त्री० ब० व० वि + प्रुष—क्विप् । १ विन्दुषु २ वेदपाठकाले मुखनिर्गतजलविन्दुषु अमरः । “मक्षिका विप्रुषच्छाया गौरश्वः सूर्य्यरश्मयः । रजो भूर्वा- युरग्निश्च स्पर्शमेध्यानि निर्दिशेत्” शु० त० । आचमनकाले मुखनिःसृतानां तासां नोच्छिष्टदोषजनकता यथाह “नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽडं नयन्ति याः । दन्त- वन् दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत्” कूर्म० उ० ३ अ० ।