संस्कृत-शब्दकोशः

विप्रुष विप्रोषित

विप्रुष्

शब्दकल्पद्रुमः

विप्रुट् || [ष्] स्त्री, (विशेषेण प्रोषति दहति पापानि । वि + प्रुष् + क्विप् ।)
बिन्दुः । इत्य- मरः ॥ (यथा, महाभारते । १३ । १०७ । १३५ । “विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ॥”)
वेदपाठे विप्रुषो मुखनिर्गतजलबिन्दवो ब्रह्म- बिन्दव उच्यन्ते । ते शुद्धाः । यथा, —
“मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः । रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्द्दिशेत् ॥” इति शुद्धितत्त्वे मनुवचनम् ॥ (यथा च मनौ । ५ । १४१ । “नोच्छिष्टं कुर्व्वते मुख्या विप्रुषोऽङ्गे पतन्तियाः । न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ॥”)
आचमनकाले मुखनिर्गता विप्रुषो न उच्छिष्ट- जनिकाः । यथा, —
“नोच्छिष्टं कुर्व्वते मुख्या विप्रुषोऽङ्गं नयन्ति याः । दन्तवद्दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत् ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥



Correction: