संस्कृत-शब्दकोशः

विभक्तज विभजनीय

विभक्ति

वाचस्पत्यम्

विभक्ति ||‍ स्त्री वि + भज—क्तिन् । १ विभागे “संख्यात्वव्याप्य सामान्ये शक्तिमान् प्रत्ययस्तु यः । सा विभक्तिर्द्विधा प्रोक्ता सुप् तिङ् चेति प्रभेदतः” श० श० प्र० उक्तलक्षणे २ प्र- त्ययभेदे च । “सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु” “विशेष्यस्यैव यल्लिङ्गं विभक्तिवचने च । ये तानि सर्वाणि योज्यानि विशेषणपदेष्वपि” व्या० का० ।


शब्दकल्पद्रुमः

विभक्तिः || स्त्री (विभजनमिति । संख्याकर्म्मादयो ह्यर्था विभज्यन्ते आभिरिति वा । वि + भज + क्तिन् ।)
विभागः । स्यादिः त्यादिश्च । यथा । “संख्यात्वव्याप्यसामान्यैः शक्तिमान् प्रत्ययस्तु यः । सा विभक्तिर्द्विधा प्रोक्ता सुप्तिङ् चेति प्रभे- दतः ॥” संख्यात्वावान्तरजात्यवच्छिन्नशक्तिमान् यः प्रत्ययः सा विभक्तिः । सुप् तिङ् इति भेदा- द्द्विविधा । इति शब्दशक्तिप्रकाशिका ॥ (उभ- यार्थोदाहरणम् । यथा, नैषधे । ३ । २३ । “क्रियेत चेत् साधु विभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया । या स्वौजसां साधयितुं विलासै- स्तावत् क्षमा नाम पदं बहु स्यात् ॥”)



Correction: