संस्कृत-शब्दकोशः

विभजनीय विभा

विभव

वाचस्पत्यम्

विभव ||‍ पु० वि + भू—अच् । १ धने २ मोक्षे सर्वमूर्त्तसंयोग- रूपे ३ ऐश्वर्य्ये नेदि० । षष्टिसंवत्सरमध्ये “सुभिक्षं क्षेम- मारोग्यं सर्वे व्याधिविवर्जिताः । प्रशान्ता मानवास्तत्र बहुशस्या वसुन्धराः । हृष्टाः पुष्टाः जनाः सर्वे विभवे- ऽवदे वरानने! इत्युक्तफलके ४ वर्णभेदे पु० ।


शब्दकल्पद्रुमः

विभवः || पुं, धनम् । (यथा, मनौ । ४ । ३४ । “न जीर्णमलवद्बासा भवेच्च विभवे सति ॥”)
मोक्षः । ऐश्वर्य्यम् । इति मेदिनी । वे, ५१ ॥ (यथा, भागवते । ७ । ८ । ५५ । “भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥”)
प्रभवादिषष्टिसंवत्सरान्तर्गतद्वितीयवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “सुभिक्षं क्षेममारोग्यं सर्व्वे व्याधिविवर्ज्जिताः । प्रशान्ता मानवास्तत्र बहुशस्या वसुन्धरा । हृष्टास्तुष्टा जनाः सर्व्वे विभवे च वरानने ! ॥” इति ज्योतिस्तत्त्वम् ॥



Correction: