शब्दकल्पद्रुमः
विभावनं || क्ली (विभावयति कारणं विना कार्य्योत्पत्तिं चिन्तयति पण्डित- मिति । वि + भावि + ल्युः । युच् वा ।) अल- ङ्कारविशेषः । स च विनाकारणं उपनिबद्ध- मानोऽपि कार्य्योदयरूपः । यथा, —