संस्कृत-शब्दकोशः

विभूति विभूषण

विभूतिद्वादशी

शब्दकल्पद्रुमः

विभूतिद्वादशी || स्त्री (विभूतिवर्द्धिका द्वादशी ।)
व्रतविशेषः । यथा, — नन्दिकेश्वर उवाच । “शृणु नारद ! वक्ष्यामि विष्णोर्व्रतमनुत्तमम् । विभूतिद्वादशीनाम सर्व्वपापनिसूदनम् ॥ कार्त्तिके चैव वैशाखे मार्गशीर्षेऽथ फाल्गुने । आषाढे वा दशम्यान्तु शुक्लायां लघुभुङ्नरः । कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान्नियमं बुधः ॥ एकादश्यां निराहारः समभ्यर्च्च्य जनार्द्दनम् । द्वादश्यां विधिसंयुक्तः करिष्ये भोजनं विभो । तदविघ्नेन मे यातु साफल्यं मधुसूदन ॥ ततः प्रभाते चोत्थाय कृतस्नानजपः शुचिः । पूजयेत् पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ॥ विभूतिदाय नमः पादावशोकाय च जानुनी । नमः शिवायेत्यूरू च विश्वमूर्त्तये नमः कटिम् ॥ कन्दर्पाय नमो मेढ्रमादित्याय नमः करौ ॥ दामोदरायेत्युदरं वासुदेवाय च स्तनौ । माधवायेति हृदयं कण्ठमुत्कण्ठिते नमः ॥ श्रीधराय मुखं केशान् केशवायेति नारद । पृष्ठं शार्ङ्गधरायेति श्रवणौ च स्वयम्भुवे ॥ स्वनाम्ना शङ्खचक्रासिगदापरशुपाणयः । सर्व्वात्मने शिरो ब्रह्मन् नम इत्यभिपूजयेत् ॥ मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः । उदकुम्भसमायुक्तमग्रतः स्थापयेद्विभोः ॥ गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् । रात्रौ जागरणं कुर्य्यादितिहासकथादिना ॥ प्रभातायाञ्च शर्व्वर्य्यां ब्राह्मणाय कुटुम्बिने । सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत् ॥ यथा न मुच्यसे विष्णोः सदा सर्व्वविभूतिभिः । तथा मामुद्धराशेषदुःखसंसारसागरात् ॥ दशावताररूपाणि प्रतिमासं क्रमान्मुने । दत्तात्रेयं ततो व्यासमुत्पलेन समन्वितम् । दद्यादेवं समा यावत् पाषण्डानभिवर्ज्जयेत् ॥ समाप्यैवं यथाशक्त्या द्वादशद्वादशीं नरः । संवत्सरान्ते लवणपर्व्वतेन समन्विताम् । शय्यां दद्यान्मुनिश्रेष्ठ गुरवेऽमरसंयुताम् ॥ ग्रामञ्च शक्तिमान् दद्यात् क्षेत्रमाभरणान्वितम् । गुरुं संपूज्य विधिवत् वस्त्रालङ्कारभूषणैः ॥ अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् । तर्पयेद्वस्त्रगोदानैरन्यत्र धनसञ्चयात् ॥ अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत् । यश्चातिनिस्वः पुरुषो भक्तिमान् माधवं प्रति । पुष्पार्च्चनविधानेन स कुर्य्याद्बत्सरद्वयम् ॥ अनेन विधिना यस्तु विभूतिद्बादशीव्रतम् । कुर्य्यात् स पापनिर्म्मुक्तः पितॄणान्तारयेच्छतम् ॥ जन्मनां शतसाहसं न शोकफलभाग्भवेत् । न च व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् ॥ वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि । यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् । तावत् स्वर्गे वसेद्ब्रह्मन् भूपतिश्च पुनर्भवेत् ॥” इति मात्स्ये ८२ अध्यायः ॥



Correction: