संस्कृत-शब्दकोशः

विभु विभूतिद्वादशी

विभूति

वाचस्पत्यम्

विभूति ||‍ स्त्री वि + भू—क्तिन् । १ भस्मनि “अणिमा लघिमा प्राप्तिः प्रावाम्यं महिमा तथा । ईशित्वं च वशित्वञ्च तथा कामावसायिता” इत्युक्ते २ ऐश्वर्य्ये च । ऐश्वर्य्य- शब्दे १५४९ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

विभूतिः || स्त्री (वि + भू + क्तिन् ।)
अणिमादि- कमष्टधा । तत्पर्य्यायः । भूतिः २ ऐश्वर्य्यम् ३ । इत्यमरः ॥ (यथा, ऋग्वेदे । १ । ८ । ९ । “एवाहिते विभूतय इन्द्रमावते ॥” “विभूतयः ऐश्वर्य्यविशेषाः ।” इति तद्भाष्ये सायणः ॥)
शिवधृतभस्म । अस्य शिवस्य अणिमाद्यष्टप्रकारं वैभवं विभूत्यादिपदत्रयं वाच्यं केचित्तु विभूतिर्भूतिरिति द्वयं शम्भुधृतभस्मनि अणिमाद्यष्टके तु ऐश्वर्य्यमित्याहुः । विभवत्यनया विभूतिः क्तिः भवतेः क्तिः भूतिः विग्रहणमन्यो- पसर्गनिरासार्थं ईश्वरगुणैश्वर्य्यं भावे ष्ण्यः अणिमादि लघिमादि । तथा च । “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावशायिता ॥” इति ॥ अणुत्वमणिमा येन सूक्ष्मो भूत्वा विचरति । लघुत्वं लघिमा येन वायुरिव लघुतरो भवति । प्राप्तिरभीप्सितप्रापणं प्राकाम्यमिच्छानभिघातः । महिमा महत्त्वं येन चतुर्द्दशभुवनान्यस्योदरे वर्त्तन्ते । ईशित्वं प्रभुता येन स्थावरजङ्गमादि- भूतान्यादेशकारीणि भवन्ति । वशित्वं स्वातन्त्र्यं येन स्वतन्त्रश्चरति । कामेन इच्छया अवशा- यितुं स्थातुं शीलमस्य कामावशायी शीङो ग्रहादित्वाण्णिन् तस्य भावः कामावशायिता । सर्व्वानन्दस्तु अनेकार्थत्वाद्धातूनां स्मृतिरिह तिष्ठत्यर्थः । अवशायी दन्तमध्य इत्याह । इति भरतः ॥ * ॥
अपि च । श्रीभगवानुवाच । “परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् । नित्यानन्दं स्वयं ज्योतिरद्वयं तमसः परम् । ऐश्वर्य्यं तस्य यन्नित्यं विभूतिरिति गीयते ॥” इति कौर्म्मे १ अध्यायः ॥ (लक्ष्मीः । यथा, ऋग्वेदे । १ । ३० । ५ । “विभूतिरस्तु सूनृता ।” “विभूतिर्लक्ष्मीः ।” इति तद्भाष्ये सायणः ॥ विभवहेतुः । यथा, तत्रैव । ६ । २१ । १ । “रयिर्व्विभूतिरीयते वचस्या ॥” “विभूतिर्ज्जगतो विभवहेतुः ॥” इति तद्भाष्ये सायणः ॥ विविधसृष्टिः । यथा, भागवते । ४ । २४ । ४३ । “शक्तित्रयसमेताय मीढुषेऽहंकृतात्मने । चेत आकूतिरूपाय नमो वाचोविभूतये ॥” सम्पत् । यथा, रघुवंशे । ८ । ३६ । “अभिभूय विभूतिमार्त्तवीं मधुगन्धातिशयेन वीरुधाम् ॥”)



Correction: