वाचस्पत्यम्
विभूषा || स्त्री वि + भूष—अ । १ शोभायां हेमच० २ भूषणे च ।
शब्दकल्पद्रुमः
विभूषा || स्त्री (वि + भूष् भूषणे + “गुरोश्च हलः ।” ३ । ३ । १०३ । इत्यः । स्त्रियां टाप् ।)
शोभा । इति हेमचन्द्रः ॥ (यथा, कामन्दकीये । १५ । ४६ । “ततः प्रबुद्धः शुचिरिष्टदेवः श्रीमद्विभूषोज्वलितः प्रहृष्टः ॥”)
आभरणञ्च ॥ (यथा, आर्य्यासप्तशत्याम् । ४५९ । “मानग्रहगुरुकोपादनुदयितात्येव रोचते मह्यम् । काञ्चनमयी विभूषा दाहाञ्चितशुद्धभावेव ॥”)