विभूषा
विभृत
विभूषित
शब्दकल्पद्रुमः
विभूषितः || त्रि (वि + भूष + क्तः । यद्वा, विभूषा संजातास्य इति । विभूषा + इतच् ।)
अल- ङ्कृतः । यथा, —
“विशुद्धरत्नांशुविभूषिताङ्गी शिलातले हेममये सुरम्ये । सुखोपविष्टं मदनाङ्गनाशनं जगाद वाक्यं गिरिराजपुत्त्री ॥” इति स्कान्दे नीलकण्ठस्तोत्रम् ॥