शब्दकल्पद्रुमः
वि(बि)भ्रत् || त्रि (भृ + शतृ ।)
बिभर्त्ति यः । धारणपोषणकर्त्ता । यथा, —
“चतुर्द्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्ज्जितम् । ददार करजैरूरावेरकां कटकृद्यथा ॥” इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥ अपि च । “तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः ।” इत्यादि तन्त्रसारे सरस्वतीध्यानम् ॥ (पवर्गीयबकारादिः साधुरेव ॥)