संस्कृत-शब्दकोशः

विभ्रत् विभ्रमा

विभ्रम

वाचस्पत्यम्

विभ्रम ||‍ पु० वि + भ्रम—घञ् । १ स्त्रीणां शृङ्गाराङ्गे चेष्टाभेदे “विभ्रमस्त्वरयाऽकाले भूपास्थानविपर्य्ययः” इत्युक्ते २ त्वरया भूषास्थानवैपरीत्ये च “यश्चाप्सारो विभ्रम- मण्डनानाम्” कुमारः । विशेषेण ३ भ्रान्तौ मेदि० ४ शोभायां ५ सन्देहे हेमच० । ७ भ्रमणे शब्दरत्ना० । “चित्तवृत्त्यनवस्थानं शृङ्गारात् विभ्रमो भवेत्” उक्ते ८ शृङ्गाराच्चित्तवृत्त्यनवस्थाने । “क्रोधं स्मितञ्च कुसुमा- भरणादि याचञा तद्वर्जनञ्च सहसैव विमण्डनञ्च । आक्षिप्य कान्तवचनं लपनं सखीभिर्निष्कारणोत्थितगतं वद विभ्रमं तत्” इत्युक्ते स्त्रीणां ९ चेष्टाभेदे च । अस्त्यर्थे अच् । १ वार्द्धक्यावस्थायां स्त्री शब्दरत्ना० ।


शब्दकल्पद्रुमः

विभ्रमः || पुं, (वि + भ्रम + घञ् ।)
हावभेदः । स तु स्त्रीणां शृङ्गारभावजक्रियाविशेषः । इत्य- मरः ॥ (यथा, मेघदूते । २९ । “स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥”)
मदरागहर्षजनितविपर्य्यासो विभ्रमः । यथा अन्यनिमित्तमानसादुत्थायान्यत्र गमनं प्रिया- रब्धकथामाक्षिप्य सख्या सहालपनमुच्चैर्हसित- क्रोधौ पुष्पादीनां याच्ञा सहसैव तत्परि- त्यागः । वस्त्राभरणमाल्यानामकारणतः खण्डनं माननञ्च । यदुक्तम् । “क्रोधः स्मितञ्च कुसुमाभरणादियाच्ञा तद्वर्ज्जनञ्च सहसैव विमण्डनञ्च । आक्षिप्य कान्तवचनं लपनं सखीभि- र्निष्कारणोत्थितगतं वद विभ्रमं तत् ॥” इति । “चित्तवृत्त्यनवस्थानं शृङ्गाराद्बिभ्रमो भवेत् ॥” इत्यन्यत्र च ॥ तथान्यत्र । “विभ्रमस्त्ररया काले भूषास्थानविपर्य्ययः ।” यथा, —
“श्रुत्वायातं बहिः कान्तमसमापितभूषया । भालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः ॥” इति । योषितां यौवनजो विकारो विभ्रमः । इत्येके । विभ्रान्तिर्विभ्रमः घञ् । इति भरतः ॥ अपि च । “वल्लभप्राप्तिवेलायां मदनावेशसंभ्रमात् । विभ्रमो हारमाल्यादिभूषास्थानविपर्य्ययः ॥” इत्युज्ज्वलनीलमणिः ॥ * ॥
भ्रान्तिः । इति मेदिनी । मे, ५२ ॥ (यथा, भागवते । ४ । २१ । १२ । “तमत्रिर्भगवानैक्षत् त्वरमाणं विहायसा । आमुक्तमिव पाषण्डं योऽधर्म्मे धर्म्मविभ्रमः ॥”)
शोभा । (यथा, राजतरङ्गिण्याम् । ३ । ३६७ । “ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः । तस्य शम्भुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥” यथा च अमरुशतके । १ । “ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठे प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः । त्वां पातुमञ्जरितपल्लवकर्णपूर- लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥”)
संशयः । इति हेमचन्द्रः ॥ (यथा, कथा- सरित्सागरे । १९ । ६५ । “पूरयन् बहुनादाभिर्व्वाहिनीभिर्भुवस्तलम् । कुर्व्वन्नकाण्डनिर्म्मेघवर्षासमयविभ्रमम् ॥”)
भ्रमणम् । इति शब्दरत्नावली ॥ (विकार- विशेषः । यथा, —
“तीव्रार्त्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् । आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम् ॥ निहन्यादपि चैतेषां विभ्रमः सहसातुरम् । जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे ॥” इति वाभटे सूत्रस्थानेऽष्टमेऽध्याये ॥)



Correction: