शब्दकल्पद्रुमः
विमर्द्दोत्थः || पुं, (विमर्द्दादुत्तिष्ठतीति । उत् + स्था + कः ।) मर्द्दनाज्जातसुगन्धादिः । यथा, — “अथ गन्धे परिमलो विमर्द्दोत्थे मनोहरे । दूरगामी मनोहारी गन्ध आमोद ईरितः ॥” इति शब्दरत्नावली ॥