संस्कृत-शब्दकोशः

विमर्दक विमर्दोत्थ

विमर्दन

शब्दकल्पद्रुमः

विमर्द्दनं || क्ली (वि + मृद् + ल्युट् ।)
कुङ्कुमादि- मर्द्दनम् । तत्पर्य्यायः । परिमलः २ । इत्य- मरः ॥ विमर्द्दः ३ । इति शब्दरत्नावली ॥ विशेषेण मर्द्दनञ्च ॥ (यथा, महाभारते । ३ । ३६ । ३ । “धर्म्मस्य जानमानोऽहं गतिमग्यां सुदुर्व्विदाम् । कथं बलात्करिष्यामि मेरोरिव विमर्द्दनम् ॥” त्रि, विशेषेण मृद्नातीति । वि + मृद् + ल्युः । मर्द्दनकारी । पीडादायकः । यथा, कथासरि- त्सागरे । ११३ । १९ । “अभूच्च वारणस्तस्य परसेनाविमर्द्दनः । महान् कुवलयापीड इति ख्यातो महीतले ॥” यथा च साहित्यदर्पणे । ४ । २६६ । “अयं स रसनोत्कर्षी पीनस्तनविमर्द्दनः । नाभ्यूरुजघनस्पशीं नीवीविस्रंसनः करः ॥”)



Correction: