संस्कृत-शब्दकोशः

विमर्श विमर्ष

विमर्शन

वाचस्पत्यम्

विमर्शन ||‍ न० वि + मृश—ल्युट् । १ परामर्शे न्यायोक्ते साध्य- व्याप्यहेतुमत्त्वेन पक्षनिश्चये २ वितर्के च हेम० । घञ् विमर्श तत्रैवार्थे पु० ।


शब्दकल्पद्रुमः

विमर्शनं || क्ली (वि + मृश + ल्युट् ।)
परामर्शः । वितर्कः । यथा, —
“वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् । अध्याहारस्तर्क ऊहोऽसूयान्यगुणदूषणम् ॥” इति हेमचन्द्रः ॥ (विमृश्यतेऽनेनेति । करणे ल्युट् । ज्ञानम् । यथा, भागवते । ६ । १ । ११ । “कर्म्मणा कर्म्मनिर्हारो न ह्यात्यन्तिक इष्यते । अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥”)



Correction: