संस्कृत-शब्दकोशः

विमर्शन विमल

विमर्ष

वाचस्पत्यम्

विमर्ष ||‍ पु० वि + मृष—घञ् । १ विचारे जटा० २ नाटकाङ्ग- सन्धिभेदे च । स च “अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति । मुखं प्रतिमुखं गर्भो विमर्ष उपसंहृतिः । इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते” इति वि- भज्य “यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः । शापाद्यैः सान्तरायश्च स विमर्ष इति स्मृतः” इति सा० द० लक्षितः । तदङ्गानि च तत्रोक्तानि यथा “अपवादोऽथ सम्फोटो व्यवसायोद्रवोद्युतिः । शक्तिः- प्रसङ्गखेदश्च प्रतिषेधो विरोधनम् । प्ररोचना प्रहर्षे स्यादादानं छादनं तथा” ।


शब्दकल्पद्रुमः

विम(र्श)र्षः || पुं, (वि + मृ(श)ष + घञ् ।)
विचा- रणा । इति जटाधरः ॥ (यथा, कथासरित्- सागरे । २० । १२४ । “प्रत्ययः स्त्रीषु मुष्णाति विम(र्शं)र्षं विदुषा- मपि ॥”)



Correction: