शब्दकल्पद्रुमः
विमला || स्त्री (विमल + टाप् ।)
सप्तला । इत्यमरः ॥ चामरकषा इति भाषा ॥ (अस्याः पर्य्यायो यथा, —
“शातला सप्तला सारा विमला विदुला च सा । तथा निगदिता भूरिफेना चर्म्मकषेत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
भूमिभेदः । इति मेदिनी । ले, १३१ ॥ देवी- भेदः । यथा, —
“यूथाख्यविमला कार्य्या शुद्धहारेन्दुवर्च्चसा । मुक्ताक्षसूत्रधारी च कमण्डलुकरा वरा ॥ नावासनसमारूढा श्वेतमाल्याम्बरप्रिया । दधिक्षीरोदनाहारा कर्पूरमदचर्च्चिता । सितपङ्कजहोमेन राष्ट्रायुर्नृपवर्द्धिनी ॥” इति देवीपुराणे संवत्सरदेवताद्वितीयविंश- तिकाविधिः ॥ * ॥
अन्यच्च । “पूजयेत् कर्णिकामध्ये वासुदेवन्तु नायकम् । विमला नायिका तस्य वासुदेवस्य कीर्त्तिता ॥” इति कालिकापुराणे ८२ अध्यायः ॥ * ॥
अपरञ्च । “उत्कले नाभिदेशञ्च विरजाक्षेत्र उच्यते । विमला सा महादेवी जगन्नाथस्तु भैरवः ॥” इति तन्त्रचूडामणौ ५१ पीठनिर्णयः ॥ (यथा च देवीभागवते । ७ । ३० । ६४ । “गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥”)