शब्दकल्पद्रुमः
विमुक्तः || त्रि (वि + मुच् + क्तः ।)
विशेषेण मुक्तः । यथा, —
“येऽन्येऽरविन्दाक्ष विमुक्तमानिन- स्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य क्रच्छ्रेण परं पदं ततः पतन्त्यधो नादृतयुष्मदङ्घ्रयः ॥” इति श्रीभागवते १० स्कन्धे १४ अध्यायः ॥ त्यक्तः । (यथा, महाभारते । ७ । २८ । ३५ । “विमुक्तं परमास्त्रेण जहि पार्थ महासुरम् । वैरिणं युधि दुर्द्धर्षं भगदत्तं सुरद्विषम् ॥” पुं, माधवी । तत्पर्य्ययो यथा, —
“माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च । अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)