वाचस्पत्यम्
विमुद्र || त्रि० विगता मुद्रा मुकुलीभावो यस्य । १ विकशिते हेमच० । २ मुद्रारहिते च ।
शब्दकल्पद्रुमः
विमुद्रः || त्रि (विगता मुद्रा मुद्रणभावो यस्य ।) प्रफुल्लः । इति हेमचन्द्रः ॥ मुद्रारहितश्च ॥