वाचस्पत्यम्
विमुख || त्रि० विरुद्धमननुकूलं मुखमस्य । १ वहिर्मुखे २ निवृचे च
शब्दकल्पद्रुमः
विमुखः || त्रि (विरुद्धं अननुकूलं मुखं यस्य ।)
बहिर्मुखः । विरतः । यथा, —
“स्वागमैः कल्पितैस्त्वं हि जनान् मद्विमुखान् कुरु । माञ्च गोपय येन स्यात् सृष्टिरेषोत्तरोत्तरा ॥” इति पाद्मोत्तरखण्डे शिवं प्रति विष्णुवाक्यम् ॥