शब्दकल्पद्रुमः
विमोचनं || क्ली (वि + मुच् + ल्युट् ।)
दूरीकरणम् । विमुक्तिः । विपूर्ब्बमुचधातोरनट्प्रत्ययेन निष्प- न्नम् ॥ (यथा, महाभारते । १ । १६० । १३ । “अथवाहं करिष्यामि कुलस्यास्य विमोचनम् । फलसंस्था भविष्यामि कृत्वा कर्म्म सुदुष्करम् ॥” तीर्थविशेषः । यथा, महाभारते । ३ । ८३ । १५० । “विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः । प्रतिग्रहकृतैर्द्दोषैः सर्व्वैः स परिमुच्यते ॥” पुं, महादेवः । यथा, महाभारते । १३ । १७ । ५९ । “विमोचनः समुरणो हिरण्यकवचोद्भवः ॥”)